पृ० ४५ ! विधेयप्राधान्याद् विधेयस्य लिङ्गग्रहे युक्तमुदाहरणान्तरम्-- वृकोदरस्यैष परिग्रहोऽग्र्यः( भा० आश्रमः २५|१२) परिग्रहः पत्नी ।
अत्रापि व्यवहारेऽवधेयम्-वक्तुं नायाति राजेन्द्र एतेयोर्नियमस्थयोः । अर्वाङ् निशीथात्परतस्त्वया सार्धं वदिष्यतः (भा० सभा०, २१|३३) । एतयो- र्वक्तुं नायातीत्यस्मिन्वाक्ये तुमुन्नन्तं वक्तुमिति पदं कर्तृ | वचनं भाषणं नायाति न संभवतीत्यर्थः । कस्य वचनमित्याकाङ्क्षायामाह--एतयोरिति । नियमस्थयो र्व्रतं चरतोः ।
चुद संचोदने चुरादिः । संचोदनं प्रेरणं भवति । ततोऽन्यत्र पृच्छायामपि वर्तते । मानार्थो हि धातव इति । तद्यथा—किन्तु कार्यगरीयस्त्वात्ततस्त्वामहमचूचुदम् ( भा० आदिं० ४८|६ ) ! तथा च तद्राजसूत्रे भाष्यकारप्रयोगः -- अहमपीदमचोद्यं चोद्य इति ।
औपचारिकेषु प्रयोगेषु कतिपयानीमान्यन्तः करणीयानि प्रयोगान्तराणि स्वस्य बन्धस्य चारुत्वं चिकीर्षद्भिः। यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः ( भा० आश्व० ९१|१६ )। उषितः कृतकालपरिवासः क्वचिदवस्थित उच्यते मुख्यया वृत्या, पुराण इति तु गौण्या । चिरोषितोऽगाधजलो जलाशयो ह्रद उच्यत इत्यत्र चेतनधर्मे वासो जलाशय आरोप्यते ।
पार्थान्हनिष्यामि ममैष भारः ( भ० उ० ६२|६ ) भारः साध्योऽर्थः । काये भारत्वारोपः। दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ( भा० द्रोण० ४७|५) । भारो हि वोढारमुपपीडयतीति विषमस्थ आहितभार” उच्यते उपचारेण ।
निर्ममा निष्प्रतिद्वन्द्वा निर्ह्री का निष्प्रयोजनाः ( भा० अनु० ३१|१८ )। निर्ह्रीका इति दिगम्बरा उच्यन्ते । स निह्नको यस्यापत्रपा नास्ति । नग्नस्यार्हतस्यापि च सा नास्तीति साधर्म्यान्निर्ह्रीकशब्देन स उच्यते ।
आश्चर्यतो वर्षति तत्र देवः (भा० शां०.७३|१५) आश्चर्ये विस्मयो विस्मयनीयो वार्थ उच्यते । स चानित्यः कादाचित्को भवति । अत एवाचार्येण आश्चर्यमनित्ये (६|१|१४७) इति सूत्रेणानित्येर्थे आश्चर्यमिति निपातितम् । विस्मयो भवतु मा वा भूद्यत्कदाचिदेव भवति तदाश्चर्यमित्युच्यते । तथा च प्रकृते प्रयोगः ।
अस्ताभिलाषिणि दिने (राजत० ८|४६५ )। प्रवाताभिलाषी प्रदोषः ( राजत० ८|४६७ ) । इहोभयत्र प्रयोगे इच्छारूपचेतनधर्मो दिने प्रदोषे चारोपितः । अयमेवोपचारः । अस्तंगतप्राये सवितरि, वास्यन्मंन्दसमीरं रजनीमुखम् इत्यर्थः।