पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९८
 

 पृ० ३१ । शेषे षष्ठ्या इदमपरमुदाहरणं , ब्राह्मणे-- तस्माद्य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवंति( गो० ब्रा० उ० ३|९ ) । सुर्हति आद्रियते ।

 पृ० ३२ । तृप्तार्थकपदयोगे.करणत्वशेषविवक्षायां षष्ठ्या उदाहरणान्तरम्-- मधोश्चकानश्चारुर्मदाय (अथर्व० २।५।१ )। चक तृप्तौ ।

 आशितस्तृप्त उच्यते तत्प्रयोगेऽपि करणे शेषत्वेन विवक्षिते षष्ट्या उंदाहरणान्तरम्--मेदोमज्जास्थिरक्तानां वसानां च भृशमाशिताः (भा० सौप्तिक० ८|१३९) ।

 पृ० ३३ । उपपदमन्तरेणापि तद्योगशिष्टाया विभक्तेरपरमुदाहरणद्वय- मभ्युञ्चेतव्यम्-सप्तरात्रादितो नेतो यमस्य सदनं प्रति ( भा० आदि ४|१|१४) । सप्तरात्रभ्यन्तंर इत्यर्थः । आङो मर्यादार्थस्य त्यागः ‘मर्यादाया- स्तदन्तराप्यवगतेः । तस्य सप्तरात्रात्तुं ब्रह्महत्या भविष्यति (वि० पु° ३|५|३) ।

 पृ० ३३ । पूर्णशब्दप्रयोगे करणत्वाविवक्षायां शेषे षठ्या -अपरमुदाहरण- द्वितयम्-भगस्य नावमारोह पूर्णाम् ( अथर्व० २|३६|५ )। बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ( वि० पु० १९९८) ।

 पृ० ३७ । यं कालमारभ्य क्रियाद्यापि प्रवर्तते तत्रारभ्यप्रभृत्यादिप्रयोगा- भावे द्वितीयाया व्यवहारस्याभिव्यक्तमुदाहरणान्तरम्--भर्तुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्चरामि ( भा० वि० ४५|१४) । अत्रात्यन्तसंयोगे द्वितीया वेदितव्या यथाऽन्यत्र ।

 पृ० ३८ वाक्यभेदे सत्यष्यत्यन्तसंयोगे कालात्प्रथमा साध्वी । कः कालस्त्वामन्विष्यामि (स्वप्न० .३ )। अनत्यन्तसंयोगेऽपि-कः कालो विरचितानि शयनासनानि (अवि० ३ )। क्तेन क्तवतुना वा क्रियोक्तावपि षष्ठीप्रयोगे तथैव-- कः कालस्तस्येतः प्रस्थितस्य

 पृ० ४०। तिङन्तेन समानप्रकृतिकस्य सविशेषणस्य कर्मणः प्रयोगो न दोषायेति प्रमाणीकुर्वद् उदाहरणान्तरम्-श्रेष्ठं सवं सविता साविषन्नः ( ऋ० १|१६४|२६) । सर्ववेदाः स येनोष्टो यज्ञः सर्वस्वदक्षिणः ( अमरः)। यष्टुकामो महायज्ञम् (रा० १|५७|१७)। अश्वमेधादयो यज्ञास्त्वयेष्टाः (मार्क० पुं० १|५|५४ )। क्वचिद्विशेषणविरहेपि तथाविधं कर्म न विरुन्धन्ति व्यवहारेण वित्ताः । उषितः स्मों वने वासं प्रतिकर्म चिकीर्षवः ( भा० वि० ५८|१८) ।

 पृ० ४५ । उद्देश्यविधेययोरेकत्वमापादयतोः सर्वनाम्नो र्लिङ्गविमर्श इदमपर- मुदाहरणमौपयिकम्-एतद्वै सर्वं तपो यदनाशकः ( श० ब्रा० ९|५|१|९ )। यच्छब्देनोद्देश्यपरामर्शकेन विधेयस्य लिङ्गग्रहः ।