पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९७
प्रथमोऽनुबन्धः

 }अञ्जलिदानं हि परित्यागो भवति । यस्मा अञ्जलिदीयते स विसृज्यत इत्याचारः । सूरिभिः संभृतश्रुतैः। नाञ्जलिर्दीयते जातु मानाय च गुणाय च ( राजत० ३।१३२) । मानं च गुणं च न कदाचिज्जहतीत्याह !

 वंशशब्दो नानर्थः । आह च मेदिनीकरः--वंशः पुंसि कुले वेणौ पृष्ठावयव- वर्गयोः । तत्र वर्गे समूहेऽर्थे प्रयोगः प्रदर्श्यते —रथवंशेन कदनं शत्रूणां वै करिष्यति ( भा० उ० १६४|४)।

 उक्तः प्रकीर्णकाविकरणे शेषः । अन्यत्रापि पूर्वार्द्धे शेष इष्यते वक्तुमिति स उच्यते ।

  पृ० ५ । अस्तिना वाक्योपक्रम इत्यत्रोदाहरणान्तराणीमानि संग्राह्याणेि-- अस्ति सिंहः, प्रतिवसति स्म ( पञ्चत० ४ ) । अस्त्यत्र नगरे— त्रयः पुरुषा देवस्य श्रियं न सहन्ते ( मुद्रा ० १, ५ )। अस्ति,पूर्वमहं व्योमचारी विद्याधरोऽभवम् ( कथा० २२|५६ ) । इहोदाहारणेष्वस्तिरिति प्रतिवसतीत्यादिना नान्वेति आनर्थक्यात् । अस्तीति इदमस्ति एतदस्तीति वाक्यस्यैकदेशः संक्षेपस्य कृते कृतः ।

 पृ० ९ । प्रत्ययमात्रकृतो लिङ्गभेद इत्यस्यापरमुदाहरणं पठ्यताम् –पापा ( पापा स्त्री ) कृपापात्रतरा न (अवदा० जा० २१ )।

 पृ० १६ । गृघेरकर्मकत्वेऽन्यदुदाहरणमभ्युच्चीयताम्-- राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ( वि० पु० ६|७|७ ) । गृध्नन्ति = गृध्यन्ति ।

 पृ० १९ । कृश्यतेरकर्मकत्व इदमपरमुदाहरणं शातपथम्-मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति (११|१|६।३४)।

 पृ० २० । जहातेः स्वार्थे णिचीदमपरमुदाहरणं भारतस्थं ग्राह्यम्- शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ( वन० ३७|८) ।

 पृ० २०। विवक्षातः कारकाणि भवन्तीत्यस्य निदर्शनभूतोऽयमपि शातपथः सन्दर्भःपठ्यताम्-- वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । वायुना वै गौतम सूत्रेणाय च लोकः परश्च सर्वाणि च भूतानि सन्दृब्धानि भवन्ति(श० ब्रा० १४|६|७|२, ६) । इह वाक्ययोः.समानाभिधेये विभक्तिभेदो विवक्षामात्रनिबन्धनः ।

 पृ० २३ सम्प्रदाने सप्तम्या उदाहरणे इमे अपि संग्राह्वे-नादेयं ब्राह्मणेष्वासीद् यस्य स्वमपि जीवितम् (भा० कर्ण० ९४|४६) । निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ( मनु० ८| १८५ )।

 पृ० २४ । लभेर्ण्यन्तस्य द्विकर्मकत्व इदमुदाहरणान्तरं भारतस्यम्– विजितो बाहुयुद्धेन देहभेदं च लम्भितः (सभ० ४४|११) ।