पूर्वशब्दो न्यायनये कारणवचनः प्रसिद्धःअन्यत्रापि तदर्थकः समस्ति- विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ( भा० आदि० २०४|१५ )। विधिदैवं च पूर्वं कारणं यत्र तद् विधिपूर्वम् । दुःखमित्यस्य विशेषणं सुखभित्यस्य च ।
तं प्रष्टुमेतीत्यस्मिन्नर्थे तस्मिन् प्रश्नमेतीत्यादि प्रयुञ्जते पुरा वाग्योगविदः। तथा चैतरेये प्रयोगः-- ते देवेषु प्रश्नमैताम् ( ऐ० न० १३|४)। देवेष्व- गच्छतां न्यायं प्रष्टुं किंन्वत्र साध्विति ! एष व्यवहारो बहुल उपनिषत्सु ।
एकीयशब्दस्य स्वतन्त्रप्रकृतेः समासान्तगतस्य च प्रयोग आद्रियते स्म पुरातनैः सोऽधुनातनैरपि सम्यग्ज्ञातः समादरमर्हति । अवदानमालायामार्यशूर- कृतायामयं रुचिरार्थः श्लोकः स्थितः--वाशितार्थस्वहृदयाः प्रायेण मृगपक्षिणः। मनुष्याः पुनरेकीयास्तद्विपर्ययनैपुणाः- ( जा० २२|१९ )। एकीयाः केवलाः एके । अमरोद्धाटने स्वाम्यप्युद्धरति--हृदयं तद् विविङ्क्ते यद्भावमन्यच्चलं पलम् | शतैकीयाः सहृदया गण्यन्ते कथमन्यथा। शतीकीयाः शतमध्य एकसंख्यावच्छिन्नाः .।
प्राक्छब्दार्थे के न जानते, पुरार्थे प्रयोगमपि जानन्ति समे । किम्पुनः किमुतेत्यर्थे तु विरला अस्य व्यवहारं विदुः । स वेद्यते । तदेवं तपोवनस्थानामप्यलङ्का- रस्त्यागशौर्यं प्रागेव गृहस्थानाम् (अवदा० जा० ८)। न बोधिसत्वचरितं सुखमनुमोदितु मप्यल्पसत्त्वैः प्रोगेवाचरितुम् ( अवदा० जा० ९)।
उद्देशः प्रदेशो भवति । निमित्तं प्रयोजनं नामनिर्देशश्चापि भवतीति विदितप्रायम् । उद्देशः संक्षेपः संग्रहोपि भवतीति वेद्यम् । तथा च भारते प्रयोगः-- माहात्म्यमपि चैवोक्तमुद्दैशेन गवां प्रभो (अनु° ७२।१ )।
अलीकमिति मिथ्यापरपर्यायः । तदलीकं तन्मिथ्येत्यर्थः । अनृतवचनेपि प्रयुज्यते विशेष्यभूतम्--एवंविधान्यलीकानि धार्तराष्टैर्दुरात्मभिः । पाण्डवेषु वनस्थेषु प्रयुक्तानि --(भा० वन० २६३|४९ )। अलीकानि असत्यवचनानि दूषणनीत्यर्थः।।
पुरतः पुरोऽग्रत इति समानार्थाः । पुरत इति प्रागर्थेपि प्रयोगमवतरन्दृष्टः । पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ( भा० आदि० २३२।१ )। कृच्छ् कालात्प्रागित्यर्थः।
प्रभृतिशब्दोऽव्ययमनव्ययं च । कार्तिक्याः प्रतीत्यादिष्वव्ययम् । आरभ्येत्यर्थः । आदिशब्दार्थेऽनव्ययम् । विश्वामित्रप्रभुतय ऋषयः । विश्वामित्रादय इत्यर्थः । यज्ञस्य चक्षुः प्रभृतिर्मुखं च ( अथर्वं० २|३५|५) अग्निर्यंज्ञस्य