पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८९
प्रथमोऽनुबन्धः

 परमम् इत्यव्ययं बाढमित्यर्थं पठत्यमरः । स्यादमेवं परंमं मते । मतेऽर्थे । मतमभ्युपगमः । परमं तत्रावसम् इति चोदाहरति स्वामी । इदं किमुदाहरणं ग्रन्थानारूढम् । भारतस्थमिदं सुदाहरणं सेव्यताम्--ऊचुः परम मित्येवं पूजयन्तोऽस्य तद्वचः ( उ० ८५|११ )।

 मिश्रशब्दः सर्वस्य विदितः । तत्र ब्रह्मेतिहासमिश्रम् ऋङ्मिश्रं गाथामिश्रं भवति (निं० ४|६|१) । गुडमिश्रा धाना इत्यादयः प्रयोगा विदितार्थाः प्रथन्ते । सन्ति चास्य केचन प्रयोगाश्चित्रीयाकराः, ते लक्षयितव्याः । मिश्रं चानुपसर्गमसन्धौ (पा० ६।२।१५४) । अत्र ब्राह्मणमिश्रो राजेति प्रत्युदाहरणं वृत्तौ । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्न इत्यर्थः। सन्धिरिति पणबन्धेनैकार्थ्यमुच्यत इति वृत्तिव्याख्यानग्रन्थः । स्वर्गस्वा मिश्रा देवेभिराध्वम् ( श० ब्रा० ९|२|३|२४ )। मिश्राः संगताः । तया चाप्यभवन्मिश्रो गर्भ चास्या दधे तथा (भा० अनु० ८५|५६)। मिश्रोऽभवत् तां संविवेश, तया सम्बभूव. मिथुनीबभूवेत्यर्थः । हरिवंशे ( ) ऽपि तत्रार्थे प्रयोगः--संज्ञप्तमश्वमाविश्य तया मिश्री बभूव सः

 दिष्ट्येति सुबन्तप्रतिरूपकमव्ययमानन्दे वर्तते । दिष्ट्या समुपजोयं चेत्यानन्द' इत्यमरः । अस्य प्रयोगो दिष्ट्याऽत्र भवान् पुत्रोत्सवेन वर्धते इत्यादिषु हर्षप्रवेदनपरेषु वाक्येषु प्रसिद्धः । तत्रैव प्रतिनियत इति भ्रमः । अन्यत्रापि प्रहर्षप्रवेदने बहुलं प्रयुज्यते । दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथादिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः (भा० आदि० २०६|५ )। दिष्ट्या सर्वे पावकाद् विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः। दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् (भा० आदिं० १९१।२४)। दिष्ट्या त्वं दर्शनीयोऽथ दिष्ट्यात्मानं प्रशंससि (भा० वि० २२|४७ ) । दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्यां स्मरसि मेऽनघ ( भा० वन० ६|१९) । तृतीयान्तप्रयोग वर्धतिप्रयोगश्चेत्युभयमप्यतन्त्रम् ।

 उष्णीष इति पुंसां शिरोवेष्टनं भवतीत्ययमपि विभ्रमः । स्त्रीणामप्युष्णीषो भवति । तेनोष्णीष इति शिरस आवरणं भवति नावश्यं शिरोवेष्टनमेव । तथा च शतपथे प्रयोःगः---आदित्यै रास्नासीन्द्राण्या उष्णीष इति ।

 आविष्कृतः प्रकटीकृतः प्राकट्यं नीत उच्यते । आविष्कृतः क्षितौ (भा० आदि० १७२|५) । इहाविष्कृतः प्रख्यातो विश्रुतः प्रतीतः प्रसिद्ध उच्यते । तथा खनति यथाऽनाविरूपरं भवति ( भा० श्रौ० ७|८|१२ )। अनाविरप्रकाशम् । आच्छनम् । नोपरस्याविष्कुर्यात् नि० ३|५|२)। उपर इतिं यूपस्यातष्टप्रदेश उच्यते तं पासुभिर्बहिषा चाऽऽच्छादयेत् । नाविष्कुर्यात् नानावृतं कुर्यात् ।