प्रथमोऽनुबन्धः
अवसितायामेतस्यां पुस्तिकायामिदं मे चित्तमुत्पन्नं प्रकीर्णकप्रस्तुत्य सन्देह- विभ्रमयोर्विषयभूता अल्प एव प्रयोगा समुच्चित्य व्याख्याताः । अतथाभूताः शिष्टजुष्टाः साम्प्रतिकानां भूयसाऽविदिता वेदितव्याश्च सन्ति भूरय इति तेप्यनुक्रम्य व्याख्यानीय बोधस्य कार्त्स्न्यायेति’ तेत्रानुबध्यन्ते---
द्वन्द्वं रहस्य-मर्यादावचनेत्यादिसूत्रे (८|१|१५) दीक्षित आहान्यत्रापि विषये योगविभागाद्द्वन्द्वमिष्यते । तद् विषयान्तरमुदाहरामः-द्वन्द्वमिन्द्रेण देवताः शस्यन्ते (ऐ० ब्रा० ३|५०, श० ब्रा० १|११|१|२२) । द्वन्द्वं द्विशो द्विवर्गसम्बन्धेन । द्वन्द्वमन्ये युयुत्सवः । प्रक्रीडिताश्च ते द्वन्द्वमुपेतुर्युगपत्तदा (हरि० २|१४|१८)। भागवतकारस्तु द्वन्द्वेनेति तृतीयान्तं पठति-एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः (८।१०|३४ )
कोषेष्वपठितोपि कालिकेति शब्दो मेघपङ्क्तिपर्यायः श्रीरामायणे ( २|४१|१२|) श्रूयते-—कालिकाऽनिलवेगेन महोदधिरिवोत्थित इति। रात्रिविषये कालशब्दोपि तत्र स्थितः काली निशेति । तमस्विनीत्यर्थः ।
शोकपर्यायसन्तप्तः ( रा० २|४१|१५) शोकेन पर्यायेण क्रमेण सन्तप्त इति तदर्थः । लवस्य प्रणामपर्यायः ( उत्तर० )। अनुक्रमेण प्रणामः प्रणामपर्यायः । पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभः ( वे० सं० २|१३)| पर्यायेण कादाचित्कतया ।
धारेरुत्तमर्णः (१|४|३५)। अत्र सूत्रे णिच्सहितस्य घृञः प्रयोगादवसीयतेऽत्र विषये ण्यन्तस्यैव धरतेः प्रयोगं व्यवहारविदो विदुः । अन्यथा मात्राल्लाघवमप्यत्याद्रियमाण आचार्योऽतिरिक्ताक्षरं पदं न प्रयुञ्जीत । आतश्च भारतेऽत्र विषये ण्यन्तस्यैव धृञः प्रयोगो दृश्यते–ऋणं धारयमाणस्य कथं सुखमनीहयेति (उ० १०७|६)| अधमर्णपर्यायो धारणकशब्दोप्यस्मदुक्तं समर्थयते ।
त्यक्त्वा दुष्टो नष्टः पयोनिधिम् (वि० पु० ५|७|६)। इह नष्टः पलायित इत्यनेन समानार्थः । स च गौणोऽर्थः । मुख्यया वृत्या तु नष्ट इति तिरोभूतमाह ।
वृद्धोहं संम कार्याणि समस्तानि न गोचरे (वि० पु० १|१७|७३ )। गोचरो विषयो भवतीन्द्रियविषयो वा । इइ त्वायत्ततामाह । मत्कार्याणि मत्साध्यानि न भवन्तीत्यर्थः । अत्रैवार्थे समासचरमावयवोपि गोचरशब्दः श्रूयते यया दुष्प्रापा