पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
वाग्व्यवहारादर्शः

५६८-ते मौलिकीरनूदिता वा कृतीः प्रकाशनार्थं प्रेषयितुमनुरुध्यन्ते ।
५६९-सनातनदेव कालान्मनीषिभिरस्याऽऽस्तम्बब्रह्मपर्यन्तस्य लोकस्याध्ययने क्रियते साभिनिवेशं यत्नः ।
५७०-सर्वविश्वपरिरक्षणे विपुलशक्तिरखिलेश ।
    अन्यमना इव लक्ष्यसे, मथि पापे करुणेश ।
५७१-सेयं नः संस्कृतिर्वेदे वर्णितोषेव पुराणी युवतिः ।
५७२-स्वस्य संस्कृते रक्षायै सतत प्रयतते प्राणपणेनापि प्रत्येकं राष्ट्रम् ।
५७३-प्राध्यापकस्य श्रीभट्टाचार्यस्य सांयात्रिकत्वं दीर्घस्मिन्नध्वनि मेऽवलम्बनमभूत् ।
५७४–परं विषीदामि यतो न पारये, परस्परं संलपितुं चिराय वै ।



५६८- मूलाद् आगतं मौलं भवति । मौला मन्त्रिणः पितृपैतामहा उच्यन्ते । मूलाद् आगता कृतिरित्युक्तेनार्थः कश्चित् स्फुटति । किंलक्षणा सा भवतीति विशिष्य न ज्ञायते । मूलमनुज्झित्वा प्रवृत्तेति चेन्नायं विवक्षितोऽर्थः । तेन अयोनिजाः कृतीरिति वक्तव्यं स्वस्थोपज्ञा इति वा । प्रेषयेयुरित्यनुरुध्यत इत्येवं वाक्यशेषः कल्पनीयः । भिन्नकर्तृकतायां तुमुन्दुर्लभः। अनो रुध कामे दिवदिः। अनुरुध्यन्ते इत्यस्य प्रार्थ्यन्ते इति नार्थः । काम एषणम् इच्छा भवति, न प्रार्थना ।
५६९- सनातनशब्दः पुरातनापरपर्यायो न। सनातन इति नित्यमाह । सनाभवः सनातनः । तेन ‘सुदूरमतिक्रान्तात्कालादा' इत्येवं वक्तव्यम् । अत्राङ् अभिविधौ वेदितव्यः ।
५७०- इह बह्वाकुलीकृतम् । समानार्थकयोः सर्वविश्वशब्दयोः साकं प्रयोगो दुष्यति । प्रयोक्ता तु विश्वशब्दो जगनामेति भ्रमति । विपुलशक्तिरिति प्रातिपदिकार्थमात्रे प्रथमा प्रयुक्ता साऽपि दुष्यति, इष्यते चामन्त्रितम्, तेन विपुलशक्ते इति वक्तुमुचितम् । अन्यथा वाक्यभेदप्रसङ्गः ।
५७१– उषा इवेति वक्तव्यम् । उषस् इति स्त्रियां देवतावाचि सकारान्तम् ।
५७२– प्रत्येकं राष्ट्रमिति दुष्टम् । प्रत्येकमित्यव्ययीभावो यथार्थे वीप्सायाम् । राष्ट्राणि प्रत्येकं प्रयतन्त इत्येवं न्यसंनीयम् ।
५७३- सांयात्रिकः पोतवणिग् भवति । इममर्थमजानान एवं प्रयुङ्क्ते । समानयांत्रिकत्वमिति प्रयोक्तव्यं स्यात् ।
५७४- संलपितुमित्यनेनैव संगतयोरालाप उक्तो भवति । तेन परस्परमिति गडुभूतम् पराकृत्यम् ।