४५१-महाभागो. राजराजो नलो दुरो१दरवशं गतो राज्याद्विच्युतोभूत् ।
४५२-तदवनतेः साम्प्रतं साक्षात्वात्तत्रानुमानमनवकाशम् ।
४५३-गताः संप्रति विक्रमादिनृपतयो देववाण्याः परिपोषकाः । इदानीमन्यासां प्रष्टारः सन्ति न त्वस्याः ।
४५४-महानेष गभीरो विषयो विशेषतो मादृशां विषये ।
४५५–तनय एव पितुः स्नेहसर्वस्वमधिकरोति२ ।
४५६-नहि धिषणो३प्येतावताऽनेहसा शक्तो दुरूहाणीमानि शास्त्ररहस्यानि यथायथमाकलयितुम् ।
४५७-वल्गां संनियम्य मन्दीकुरु रथवेगम् ।
४५८–स्वयं च संस्कृतस्य राष्ट्रभाषारागमालपसि, सुतांश्च पारसीकादिभाषा अध्यापयसीत्यहो वचःकर्मणोर्विभेदः ।
४५९-हन्त कुत्र: मतान्धः श्रद्धाजड आर्यविद्वेषी क्षुद्रहृदयोऽवरङ्गजीवः कुत्र चोदारधीर्न्यायप्रियः सर्वत्र सम शिवराजो महाराजः ।
४५१-राजराज इति कुबेरस्य रूढिः। तथा चामरः-—
मनुष्यधर्मा धनदो राज'राजो धनाधिप इति । तेन परमराजो महाराज इति वा वक्तव्यम् ।
४५२–साक्षात्प्रत्यक्षतुल्ययोरित्यमरे साक्षाच्छब्दः प्रत्यक्षपर्यायः पठितः । तथापि लक्ष्येषु क्रियाविशेषणत्वेन प्रयुक्तों दृश्यंते न तु विशेषणमात्रत्वेन। साक्षाद् द्रष्टरि संज्ञायाम् (५|२|९१ ) इत्यत्री सूत्रे यथा । तेन प्रत्यक्षत्वादितिं वक्तव्यम् ।
४५३-अन्यासामादर्तारो मानयितार इति वा वक्तव्यं । अवेक्षका इति वा ।
४५४-मदृशामित्येव । विषये इति तु परिहार्यम् । सम्बन्धमात्रं तुं विवक्षितं न वैषयिकमधिकरणम् ।
४५५-स्नेहसर्वस्वमीष्ट इति वक्तव्यम् ! स्नेहसर्वस्येऽधिक्रियत इति वा ।
४५६-यथातथमिति वक्तव्यम् । यथायथं यथास्वमिति भवति । यथा,ते यथायथं गृहाणि सम्प्रस्थिताः' । स्वं स्वं गृहं प्रतिगन्तुं प्रवृत्ता इत्यर्थः।
४५७-वल्गेति रश्मिवद्बहुत्व एव प्रयुज्यते । तथा च प्रयोगः---
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यत इति ।
६५८–राष्ट्रभाषात्वार्हता गायसीत्येव संक्षिप्तं वचो निर्देष्टं च । किं च राग इति गीतेन समानार्थको नः । आङ्पूवों लपिरपि संबोधने वर्तते नोच्चारणे ।
४५९-वैषम्ये गम्ये द्वै क्वौ प्रयुज्येते, न तु कुत्रशब्दो द्विरुच्यते । तथा चोक्तं दौ क्वौ महदन्तरं सूचयत इति । तत्कस्मादिति चेत् । व्यवहारे परतन्त्रा वयं न स्वतन्त्राः ।
फलकम्:वule
१. दुरोदरं द्यूतम्
२. ईष्ट इत्यर्थ इत्यभिमानः
३. धिषणो बृहस्पतिः | धिषणा बुद्धिः।