४४–वत्स कथय किं तवायुः । अङ्ग१.नाहं ज्यौतिषिकः ।
४५-तत्प्रेमरसपूरेण पूरितो मम हृद्ह्रदः। काव्यकल्पनकुल्यानां स्यन्दते कैतवादिव ।
४६-द्वाभ्यामर्धाभ्यां२ रूप्यकं भवति ।
४v-सर्वस्वमाहुतिमाददिरे राष्ट्रसेवापरायणाः ।
४८-महात्मनिर्दिष्टेन मार्गेण देशस्य भूमानं३ चिन्तयिष्यन्ति चेन्नेतारः फलिष्यन्तिं
नो मनोरथाः ।
४९–स्वराज्यं जन्मसिद्धो मेऽधिकार इति श्रीतिलकः प्रत्यजानीत ।
५०-श्रीराजेन्द्रश्च राष्ट्रपतिः स्थितधीः स्थिरमनाश्चाभूदित्युभ्युपगमो लोकस्य ।
५१-शरणं तेऽहमुपागत इति त्रायस्व मां विभो ।
४४-आयुर्जीवितकाल इत्यमरः । तेनायुः पृष्टः कश्चिन्नाहं ज्यौतिषिक इति
युक्तमाह । अत्र प्रष्टाऽपराध्यति न प्रतिवक्ता । तेन वयः प्रच्छनीयम्
नाऽयुः ।
४५-काव्यकल्पनकुल्या एव कैतषमिति रूपकम् । काव्यकल्पनकुल्याभ्यः कैतवादिति
व्यस्तरूपकसमाश्रयेण वक्तव्यं समासेन वा मयूरव्यंसकादिना
काव्यकल्पनकुल्याकैतवादिति रूपेण ।
४६-द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिरित्यमरे
सामानाधिकरण्यवैयधिकरण्याभ्यां संज्ञासंज्ञिनोर्निर्देश
इतीहाप्युभयथा शक्यं निर्देष्टुम्--द्वाभ्यामर्धाभ्यां द्वावर्धौ वेति ।
तेन नात्र कश्चिद्दोषः ।
४७-आङपनेयः । ददिर इति वक्तव्यम् । आदानं ग्रहणं भवति न तु
वितरणम् ।
४६-भूमेति वहोरिमनिचि रूपम् | बहुत्वं चार्थः । भूतिमिति तु वक्तव्यम् ।
४९-स्वर् इति स्वर्गनाम । तस्य राट्, तत्र राजत इति वा स्वाराड् इन्द्रः । तस्य
भावः कर्म या स्वाराज्यम् । प्रकृते सोऽर्थो न विवक्षितं इति स्वस्य राज्यं
स्वराज्यमित्येव साधु ।
५०-स्थितधीः स्थिरमना इति समानार्थौ शब्दौ । समानार्थौ च न सह प्रयुज्येते
इत्येकतरः शक्योऽप्रयोक्तुम् ।
५१-शरणं गृहरक्षित्रोरिति रक्षितृवचनः शरणशब्दः। तेन त्वां शरणमुपागतोऽहमित्येवं
वक्तव्यम् ।
१. इत्ययं सम्बोधने । २.अर्धशब्दो रूप्यकार्धस्य रूढिरिति पूरणार्द्धाट्ठन् (५|१|४८ )
इत्यत्र काशिका ।. ३. भूतिं विवक्षति ।