पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/96

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

10. ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः [उपोद्घातः] दिव्यशास्त्रमपहाय यदन्यत् प्राह जिष्णुतनयो निजबुद्धया ।

तस्य शास्त्रमधिकृत्य ततोऽहं दूषणानि कतिचित् कथयामि ॥ १ ॥

(युगाङिघ्रखण्डनम्) जिष्णुपुत्र कथितैर्युगाङि्घ्रभिः खेचरो नहि यतः स्वपर्ययम् ॥ भुञ्जते सममतो युगाङघ्रयः श्रीमदार्यभट्टकीर्तितास्स्फुटाः ॥ २ ॥ [युगखण्डनम्] स्मार्तमस्य युगमेव चेत्क[थं] नो रवेरुपरि शीतदीधितिः । तत्स्मृतावसदितीह नेष्यते हन्त ! साऽपि युग कल्पना मृषा ॥ ३ ॥ कल्पमेव युगमुच्यते त्वया तत्कथं युगमपेशल न ते ।

प्राप्यते युगमिदं त्वयैव नो त्वत्कृतं मुनिगणैरसक्ततः ॥ ४ ॥

Text of Ms. A : [1] दिव्यशास्त्रमपहाय यदन्पत्प्राह जिष्णुतनयो निजवुद्धया तस्य शास्त्रलवमधित्तयोहं दूषणांनि कतिचित्कथयामि ॥ ॥ [2] जिष्णुपुत्रकथितैर्युगांघ्रिभिः खेचरा नहि घत्तस्स्वपर्ययं ॥ 1॥ भुंजते सममतो युगांघ्नयः श्रीमदार्यभटकीर्तितास्स्फुटाः ॥ ॥ [3] स्मार्तमस्प युगमेव चेत्क- नो रवेरुपरि शीतदीधितिः तत्स्मृतावसृदतीह नेष्पते हत्त सापि युगकल्पना मृषा ॥ ॥ [4] कल्पमेव युगमुच्पते त्वया तत्कथं युगमपेशलं न ते प्राप्पते युगमिदं त्वयैव तो त्वत्कृतं मुनिगणैरसक्ततः ।. ॥! Ms. B : 3 c नेष्यते