पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/95

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [अधिकारः I दश[१०]गुणितः शीतांशुः त्रिगुणे[३३]न युतोऽन्यपर्ययाप्तेन । विदाहतेन मिश्रः शनिर्विहीनोऽथवाऽन्यभगणाः के ॥ १७ ॥ भौमस्त्रिभुजा [२३]भ्यस्तस्त्रि [३]गुणगुरूनोऽन्यभगणलब्धेन । हीनो रविः समेतो मन्दो वाऽन्यस्य के भगणाः॥ १८ ॥ सम्वत्सरादिशुद्धिं करोति बहुधा ततश्च दिनराशिम् । द्युगणाद्रविं च बहुधा दिवसक्षयशेषकाच्च रजनीशम् ॥ १९ ॥ द्युगणाद् ग्रहा दिनाद्वा समाधिपः सावनो द्युमासेशौ । रोच्यमरान् होरेशं वारादिं वेत्ति निजविषये ॥ २० ॥ प्रतिकक्ष्यातः खचरान् देशान्तरस्फुटं वेत्ति [वा] । यस्सोऽब्धिमेखलायां भुवि तन्त्रविदां भवेन्मुख्यः ॥ २१ ॥ प्रश्नविधिर्नवमः। Text of Ms. A: [17] दशगुणितः शीतांशुः त्रिगुणेन पुतोत्पपर्ययाप्तेन । विताहतेन मिश्रः शनिर्विहीनोथवान्पभगणाः के ॥ [18] भौमस्त्रिभुजाभ्पस्तस्त्रिगुणागुरून्पोन्पमगणलब्देन हीनो रविस्समेतो मदो वान्पस्पा के मगणाः ॥ [19] संवत्सरादिशुद्दि करोति बहुधा ततश्च दिमराशिं । घुगणाद्रषिं च बहुधा दिवसक्षयशेषकाश्च रजनीशं । [20] घुगणाद्ग्रहादिनाद्वा समाधिपसावने दिवोर्केषु रोच्पमरान्होरांशं वारादि वेत्ति निजविषये ।। [21] प्रतिकक्ष्यातः खत्वरान्देशांतरस्फुटं वेत्ति यस्सोव्दिमेखलायां भुवि तंत्रविदां भवेन्मुख्पः ।। Ms. B: 17 b युतोन्प° 19 c बहुधा । 11 ।