पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/92

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

9. प्रशनविधिः [ उपोद्घातः ] आकर्ण्य कुतन्त्रविदः प्रश्नान् ग्लानिमुपयान्ति नष्टगिरः ॥

यस्मादतः स्वधीभिः प्रश्नाध्यायं समुद्यतो वक्तुम् ॥ १ ॥

[ प्रश्नाः ] आनयति यो द्युराशिं विनाधिमासैस्तथा तिथिप्रलयैः । रविदिवसेभ्योऽस्माद् वा द्युचरान्यः स तन्त्रज्ञः ॥ २ ॥ अधिमासैः शशिमासैरवमैः कुदिनैर्विना च य आनयति ॥

द्युगणं रविदिवसेभ्यो वेत्ति प्रकटं स मध्यगतिम् ॥ ३ ॥

कुदिनैः शशिदिवसान् तैः खरांशुदिवसान् करोति तैर्भाहान् ॥ अधिकैरवमानवमैरधिकान् वा यः स तन्त्रज्ञः ॥ ४ ॥ Text of Ms. A : [1] आकर्ण्य कुतंत्रविदः प्रस्नात्ग्लानिमुपयांति नष्टशिरः यस्मादतः स्वधीभिः प्रश्नाध्पायं समुच्पते वक्तुं । ।

[2] आमयति यो द्युराशिं वेनाधिमासैस्तथा त्रिथिप्रलयैः

रविदिचसेप्पोस्माद्वा द्युचराद्यस्स तंत्रज्ञः । [3] अधिमासैः शशिमासैरवमैः कुदिर्नविना य त आनयत्ति

द्युगणं रविदिवसेभ्पो वेत्ति प्रकटं स मध्यगतिं ।

[4] कुदिनैः शशिदिवसोतैः खरांशुदिवसान्करोति तेर्भाहान् अधिकखमैखसैरधिकात्वायस्स तंत्रज्ञ: