पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/89

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

t वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [ अधिकार: I [ देशान्तरकर्म ] [ प्रथमविधिः ] तन्नाडिका[गति]वधात् षष्टच्याप्तकलोनसंयुतः प्राग्वत् ॥ खचरः स्वधाम्नि मध्यो मध्यमतिथिनाडिकास्वेवम् ॥ १० ॥ [ द्वितीयविधिः ] षष्टिहृतः क्षितिपरिधिर्देशान्तरनाडिकाहतः स्पष्टा ॥

योजनसंख्या परिधौ फल[म]स्याः पूर्ववत्खचरे ॥ ११ ॥

[ देशान्तरवशाद् वारप्रवृत्तिः ]

देशान्तरघटिकाभिः प्राग् लेखाया इनोदयात् पश्चात् । वारप्रवृत्तिरुक्ता पश्चात्स्वाकर्कोदयात्पूर्वम् ॥ १२ ॥

[ अक्षांशवशाद् वारप्रवृत्तिः । दक्षिणगोले पूर्वं रव्युदयाच्चरदलेन वारादि: ।

उत्तरगोले पश्चादिनोदयाच्चारदलेनैव ॥ १३ ॥

Text of Ms. A : [10] तन्नाडिकावधात्षष्टयाप्तकलोनसंयुतः प्राग्वत्। खचर स्वधाम्नि मध्यामध्यामध्यमतिथिनाडिकाखेवं ॥ ! [11] षष्टिहृतः क्षितिपरिधिर्देशांतरनाडिकाहतः स्पष्टा योजनसंख्या परिधौ फलस्पाः पूर्ववत्ववचरे ।

षष्ट्यभ्यधिकोते संख्या गलकालो रखापरपूर्वे द्रष्टा क्षितिशे

[12] वेशांतरघटिकाभिः प्राग्लेखाया इनोदये पश्चात् ।

वारप्रवृत्तिरुक्ता पश्चात्स्वार्कोदयात्पूर्व ।

[13] दक्षिणगोले पूर्वखायाश्चरदलेन वा भराठि: ॥ ॥ उत्तरगोले पश्चादिनोदयाच्चारदलेनैव Ms. B : 13 पूर्व