पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/88

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 8] देशान्तरविधिः 63 [ देशान्तरकर्म च ] देशान्तरगतिघातात्कुवृत्तलब्धं विशोधयेत्पुरतः ।

देय कलादि पश्चाल्लेखाया मध्य मे द्युचरे ॥ ६ ॥

[ तत्खण्डनम् ] श्रुतियोजनास्फुटत्वाद्वक्रत्वात्कुपरिधेश्च नेष्टमिदम्। | अन्यमतानामुल्लेखपूर्वकं खण्डनम् ] स्वपदांशवर्जितेऽन्ये श्रवणे देशान्तरं जगुः । ७ ।।

प्रोक्तं [च] पलयोजनं तथाऽन्यैर्भाद्वयेन1 घमाँशोः ॥ कोटिलघुत्वात्पूर्वं मिथ्या भाऽविशेषतोऽन्यच्च ॥ ८ ॥

[ ग्रन्थकारमतेन स्पष्ट देशान्तरम् ] गणितागतशीतांशोः प्रग्रहकालं प्रसाध्य निजविषये |

प्रत्यक्षेण तदन्तरकालो देशान्तरं स्पष्टम् ॥ ९ ॥

Text of Ms. A : [6] देशांतरगतिघात्तात्कुवृत्तलव्दं विशेथयेत्पुरक्षः देयं कलादि पश्चाल्लेखाया मध्यमे घुचरे [7] श्रुतियोजनास्फुटत्वाद्वक्रव्रात्कुपरधेच्च नष्टमिदं − स्वपदांश्चवर्जित्तेत्पे । अवणे देशांतरं जगुः प्रेक्ति । [8] पलयोजन तथान्ये भाद्वयेन घर्माशो: कोटिलघुत्वात्पूर्व मिथ्या षाद्विशेषत्तोत्पच्चा । । [9] गणितागतशोतांशोः प्रग्रहकालं प्रसाध्य निजविषये प्रत्पक्षेण तदत: कालो देशांतर स्पष्टं । । Ms. B : 7 c °त्तेन्पे ।। 8 d °त्तोन्पच्च 1. द्वितयेन would be better metrically.