पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/61

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

रविनिवभागे [8] योज्यं नगाग्निसप्ताक्षि[ २७३७]ताडिताद् भानोः ।
खचतुष्टयवेदेन्द्वै[१४४००००],हिमग्रूच्चं वा भवत्येवम् ॥ २८ ॥
सवितृनखांशे[̈1/20] योज्यं नगैकचन्द्राष्ट[८११७]ताडितात् सूर्यात् ।
अयुताघ्नरसैकभुजैः [२१६००००] शशधरपातोऽथवा लब्धम् ॥ २९ ॥

[लध्वहर्गणसाधनम्]

चैत्रादिस्तिथिनिकरः शुद्धिविहीनः पृथग्गुणो रुद्रैः [११] ।
अवमघटीभ्यः षष्टया [६०] लब्धयुतस्त्रिखनग[७०३]हताभ्यः ॥ ३० ॥
त्रिखनग[७०३]हृतावमोनो द्युगणोऽब्दावमघटीसमेतः स्यात् ।

मध्वाद्यास्तिथयो वा सावमनाडयोऽथ शुद्धद्यूनाः ॥ ३१ ॥
पृथगज[११]निघ्नास्तिथिा[१५]भिर्हीनघटीभ्यस्त्रिसप्तकु[१७३]हताभ्यः ।
लब्धयुतास्त्रिखमुनि[७०३]भिः लब्धावमवर्जितो द्युगणः ॥ ३२ ॥



Text of Ms. A :

[28] रविनवभागे योज्पं नगाक्षिसप्ताक्षिताडिताद्भानोः

खचतुष्टयवेदेन्दैहिमगूच्चं वा भवत्पेबं ॥ ॥

[29] सवितृनखांशे योज्यं गैनकचंद्राष्टताडितात्स्यति। ।

अयुतरसैकभुजैः शशिधरपातोथवा लब्दं ।

[30] चैव्रादिस्तिथिनिकरः शुद्धिविहीनः पृथग्रुणौरुद्रैः

अवमघटीभ्यः षष्टया लृव्दयुतस्त्रिखनगहताभ्पः ।

[31] त्रिखनगह्रतावमोनो द्युगणोव्दावमधटीसमेतस्स्पात्

मध्वाद्यास्तिथयो वा सावमनाडयोथ शुद्धयूनाः ।

[32] पृथगजनिघ्नास्तिथिभिहीनघटीभ्यस्त्रिसप्तकृतहताभ्पः

लब्दयुतास्त्रिखमुनिभिः लब्दावमवर्जितो द्युगणः ।

Ms. B; 29 ताड्ताद्भानोः ख्चतुष्टयवेदेन्द्रैहुन्सूर्यात् In ms. A the portion between ता and त्सूर्यात् is deleted by covering it with yellow paste.