पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
३५
प्रत्यब्दादिशुद्धिविधिः



[रविज्ञानेन ग्रहसाधनम्।]

नवनागगुणाङ्गाङ्गै:[६६३८९]र्हताद्धृत्याऽयुताम्रया[१८ × १००००] ।
हृताद्भानोर्युतः सूर्यस्त्रयोदश[१३]गुणः शशी ॥ २२ ॥
सप्तव्योमाक्षिवेदाग्नि[ ३४२०७]हतात्सूर्यात् फलं क्षिपेत् ।
तच्छून्यखखखाष्टाभ्रभू[१०८००००]भिर्भूजी रवेर्दले ॥ २३ ॥
सुरपत्र्चनख[२०५३३]हतेतात् खखाभ्रपञ्चाग्निशशि[ १३५०००]भिराप्तं यत् ।
क्षेप्यं वेद[४]हतेने बुधशीघ्र वा भवत्येवम्। २४ ॥
[शिवभुज२११गुणितात् सूर्यात् खखाभ्रषड्घन[२१६०००lहृतादवाप्तं यत् ।
रविसूर्या १२शे योज्यं देवगुरुर्वा भवत्येवम् ॥ २५ ॥] -
शिवतत्त्वगुण[ ३२५११]हतेनादयुतद्वय[२००००]भाजितादवाप्तं यत् ।
तद्भृगुपुत्रचलोच्च भवतीह मुनीरितं वापि। २६ ॥
रविखाग्न्य[शे][ई-] योज्यं लब्धं नगखैक[१०७]ताडितात् सूर्यात्।
खचतुष्टयाष्टशशि[१८००००]भिर्वा रविसूनुर्भवत्येवम् ॥ २७ ॥



Text of Ms. A :

[22] नवनागगुणांगौहतोद्धृत्पा ध्रुवध्नया

हताद्दानोयुतस्सूर्यस्त्रयोदशगुणः शशी ॥ ॥

[23] सप्तव्योमाक्षिवेदाग्निहतात्सूर्यात्फलं क्षिपेत् । :तश्छून्याखखखाष्टाभ्रभूदिर्भूजो खेर्दले ॥ ॥

[24] सुरपंचनखहताद्यत्खखाभ्रपंचाग्निशशिभिराप्त त

क्षेप्पं वेदहतेने वृधश्रीघ्र वा भवत्येवं॥ ॥

[25] Missing

[26] शिवतत्वगुणहतेनादयुतद्वयभाजितादाप्तं यत्

तद्भूगुपुत्रचलोच्चं भवतीह मुनीरित वापि ॥ ॥

[27] रविखारग्रच योज्यं लब्दं नगखैकताडितात्सूर्यात्। :खचतुष्टयाष्टशशिभिर्वा रविसूनुर्भवत्पेवं।

Ms. B : 26 d वाप्पि 27 a खाग्प्रं'