पञ्चपञ्चकहतिर्युतावमैर्वजिताऽधिकदिनैर्हृता नगैः[७] ।
शेषसप्त[७]विवरं समाधिपो वा दिनाधिपसमाधिपः स्फुटः ॥ ११ ॥
द्वि[२]निघ्नवासरनिकरेऽधिकोनिते युतेऽथवाऽवमनिकरेण वर्षपः ।
स्वभागहारयुतगुणैर्यथोक्तवद् दिनादि तेष्वग[७]हृतशेषमब्दपः ॥ १२ ॥
[ चान्द्रवर्षाधिपसाधन-विधयः]
इनाब्दपोऽयमभिहितोऽधुना विधोः समापतिर्मधुसितपूर्ववासरे ॥
समागणाद्दिननिकरं यथोक्तवत् प्रसाध्य वा शशिगतवत्सराधिपः ॥ १३ ॥
वाऽवमद्विकगतान्तराधिकं प्रोज्झय वर्षशर[५]घाततोऽब्दपः ।
शुद्धिहीनदिवसेषु वाब्दपो हीनरात्रघटिकाब्दसंयुतिः ॥ १४।।
एवमर्कभगणाब्दप्रेरितैरैन्दवस्य करणैः प्रसाधनम् ॥ १५ ॥
[सौरचान्द्रवर्षाधिपयोः परस्परानयनम्]
हीनाहनाडीवियुतो विशुद्धया युक्तः शशाङ्काब्दपतिस्तु सौरः ॥
सौरस्तु नाडीसहितोऽथवा तच्छुद्धया विहीनो विधुवर्षपः स्यात् ॥ १६ ॥
Text of Ms. A :
[11 ] पंचपंचकहतिर्युतावमैर्वजिताधिकनगैर्ह्रता नगै: ।
- शेषसप्तविवरं समाधिपो वाधिनाधिपसमार्तिकस्स्फुटः ।
[12] द्विनिघ्नवासरनिकरेधिकोनिते युतेथवावमनिकरेण वर्षपः
- स्वभागहारयुतगुणैर्यथोक्तवद्दिनादि तेस्वगहृतशेषमब्दपः ।
[13] इनाव्दपोयमभिहितोधुना विधोः समापतिर्मधुसितपूर्ववासरे
- समागणाद्दिननिकरं यथोक्तवत्प्रसाघ्य चेहगदिगतववत्समाधिपः ।
[14] वावमद्विकहतांतराधिकं प्रोज्त्य वर्ष्टशरघाततोव्दय:
- शुद्धिहीनदिवसेषु वाव्दपो हीनरात्रघटिकाव्दसंयुतः
[15] एवमर्कभगणाव्दपेरितैरेन्दवस्प करणै: प्रसाधनं ॥ ॥
[l6] हीनांहनाडीवियुजाबियुजाविशुद्धा । यूनः शशाकाव्दपतिस्तु सोरः ।
- स नाडियुक्तोथवा शुद्धया विहीतो विधुनाथवर्षयः ।
Ms. B : 13 a इनाब्दपौ° 14 b प्रोज्ज्य०, तोब्दपः ।d °घटिकाब्द° 16 a हीनांहनाडी वियुजा विशुद्ध