[शुद्धिसाधन-विधयः]
हीनरात्रिदिनसंयुतिर्युता दिग्[१०]घ्नवत्सरगणेन भाजिता ।
खाग्नि[३०]भिस्त्वधिकमासकाः फल शुद्धिरत्र विकलं दिनादिकम् ॥ ६ ॥
अध्यहानि शिव[११]निघ्नहायनैरन्वितानि खगुणो[३०]दद्धृतानि वा।
लभ्यतेऽधिकगणोऽवशिष्टकं शुद्धिसंज्ञमथवा दिनादिकम् ॥ ७ ॥
गोमतित्रिरसषड्[६६३८९]ढताः समाः खाभ्रखाभ्रधृति[१८००००]भाजिताः फलम् ।
मासकाद्यधिकसंज्ञकं तथा शुद्धिसंज्ञमथवा दिनादिकम् ॥ ८ ॥
रुद्र[११]निघ्ननिजहारसंयुतैरध्यहानि गुणकैः प्रसाधयेत् ॥
तानि खाग्नि[३०]भजिताधिमासका वाऽवशिष्टदिवसा विशुद्धयः ॥ ९ ॥
[वर्षाधिपसाधन-विधयः]
वत्सरान्वितदिनेषु सप्तभिर्भक्तशेषमिह वत्सराधिपः ।
गो[९]घ्नवत्सरगणेऽवमोनिते साध्यहेऽग[७]हृतशेषमब्दपः ॥ १० ॥
Text of Ms. A :
[6] हीनेराम्रिदिनसंयुतिर्युता दिग्घ्रवत्सरगणेन भाजिता ।
- खाग्निभिस्त्विधिकमासिका: फलां शुद्धिरत्र बिकलं दिनादिक ॥ ॥
[7] अध्यहानि शिवनिघ्नहायनैरन्वितानि खदिमोद्धृतानि वा।
- लभ्यतेधिकगणोवशिष्टकं शुद्धिभद्ररथवा दिनादि यत्। ॥
[8] गोमतित्रिस्स्कषट्कृतास्समाः खाघ्रखाभ्रधृतिभाजिताः फलं ।
- मासकाद्यधिकसंज्ञक तथा शुद्धिसंजमथावादितादियेकम् । ।
[9] रुद्रनिघ्रनिजहारसंयुतैरध्यहानि गुणकैः प्रसाधयेत् ।
- भानि खाग्निभजिताधिमासका वावशिष्टदिवसा विशुद्धयः ।
[10] वत्सरान्वितदिनेषु सप्तभिर्भक्तशृषमिह वत्सराधियः
- गोघ्नवत्सरगणैवमोनिते । साध्यहेखहृतशेषमव्दयै : ।
Ms. B : 6b दिग्घ्न° 8 a °त्रिरस्कषट्कृता० 10 b °वत्सराधिप: 10 d oमब्दप: