पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/48

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
२३
सर्वतोभद्रः



[ ग्रहानयने अन्ये विधयः]

[मन्दगतिशीघ्रगतिग्रहयोरानयनम्]


द्वियोगराशिद्युगणेन ताडितः क्वहैरवाप्तं भगणादि तद्युतः ॥
ग्रहोऽल्पभुक्तिहि भवेद् बृहद्गतिर्बृहद्गतिर्वा वियुतोऽल्पभुक्तिकः ॥ ३१ ॥

स्वपर्ययैक्याहतवासरौघतः क्षितिद्युलब्धं भगणादिकं द्विधा ॥
द्वियोगलब्धोनयुतं तथाधित वियत्सदौ वा भवतोऽत्र मध्यमौ। ३२ ॥

तदूनभुक्तिना हीनं खेचरेण बृहद्गतिः ॥
शीघ्रभुक्तिग्रहेणोन मृदुभुक्तिग्रहो भवेत् ॥ ३३ ॥

[स्वोदयज्ञानेन ग्रहानयनम् ]

ग्रहोदयघ्नो द्युगणः क्वहोद्धृतो गतोदया भाद्यवशेषकं ग्रहे ॥
क्षयस्वमर्काद् बृहदल्पभुक्तिके रविर्ग्रहोऽप्येवमिनोऽथवा भवेत् ॥ ३४ ॥

[ग्रहोदयकाले ग्रहानयनम् ]


अर्कवत्खचरभोवर्यर्गताः स्वोदयास्तदुदयावधिर्ग्रहः ।
प्रोक्तवद्रविविधू त्वनेकधा स्वावमाप्तविकलोक्त्तकर्मणा ॥ ३५ ॥


Text of Ms. A :

[31] द्वियोगराशिर्द्युगणेन ताडिताः कृहैरवाप्तं भगणादि तद्युतः

ग्रहोल्पभुक्तिहिं भवेद्वृहद्गति । र्बृहद्गत्तिर्वा वियुतोल्पभुक्तिकः ॥ ॥

[32] स्वपर्यधैक्याहतवासरौघतः क्षितिद्युलव्दं भगणाधिकं द्विधा

द्वियोगलव्दोनयुतं तथाबिभ वियत्सदौ वा भवतोत्र मध्यमो ॥ ॥

[33] तदूनभुक्तिना हीनं खेचरेण बृहद्गतिः

शीघ्रभुक्तिग्रहेणोनं मृदुभुक्विग्रहो भवेत् ॥ ॥

[34] ग्रहोदपघ्नो द्युगणः क्वहोद्धृतो गतोद्वया भाद्यवशेषकाद्ग्रहे

क्षपस्वमकीद्वृहदल्पभुक्तिकि रवेद्ग्रहोप्येवेमिनोथवा भवेत्।

[35] अर्कवत्खचरभोदर्यै गतास्स्वोदयास्तदुदयावधिग्रह:

प्रोक्तवद्रविविधू त्वनेकधा । स्वापमाप्तिविकलोक्तकर्मणा ॥ ॥

Ms. B: 31 b क्वहँ° 32 a °पर्यधैक्या° 33 c °मर्काद्वृहदल्पभुब्तिकि