[ ग्रहानयने अन्ये विधयः]
[मन्दगतिशीघ्रगतिग्रहयोरानयनम्]
द्वियोगराशिद्युगणेन ताडितः क्वहैरवाप्तं भगणादि तद्युतः ॥
ग्रहोऽल्पभुक्तिहि भवेद् बृहद्गतिर्बृहद्गतिर्वा वियुतोऽल्पभुक्तिकः ॥ ३१ ॥
स्वपर्ययैक्याहतवासरौघतः क्षितिद्युलब्धं भगणादिकं द्विधा ॥
द्वियोगलब्धोनयुतं तथाधित वियत्सदौ वा भवतोऽत्र मध्यमौ। ३२ ॥
तदूनभुक्तिना हीनं खेचरेण बृहद्गतिः ॥
शीघ्रभुक्तिग्रहेणोन मृदुभुक्तिग्रहो भवेत् ॥ ३३ ॥
[स्वोदयज्ञानेन ग्रहानयनम् ]
ग्रहोदयघ्नो द्युगणः क्वहोद्धृतो गतोदया भाद्यवशेषकं ग्रहे ॥
क्षयस्वमर्काद् बृहदल्पभुक्तिके रविर्ग्रहोऽप्येवमिनोऽथवा भवेत् ॥ ३४ ॥
[ग्रहोदयकाले ग्रहानयनम् ]
अर्कवत्खचरभोवर्यर्गताः स्वोदयास्तदुदयावधिर्ग्रहः ।
प्रोक्तवद्रविविधू त्वनेकधा स्वावमाप्तविकलोक्त्तकर्मणा ॥ ३५ ॥
Text of Ms. A :
[31] द्वियोगराशिर्द्युगणेन ताडिताः कृहैरवाप्तं भगणादि तद्युतः
- ग्रहोल्पभुक्तिहिं भवेद्वृहद्गति । र्बृहद्गत्तिर्वा वियुतोल्पभुक्तिकः ॥ ॥
[32] स्वपर्यधैक्याहतवासरौघतः क्षितिद्युलव्दं भगणाधिकं द्विधा
- द्वियोगलव्दोनयुतं तथाबिभ वियत्सदौ वा भवतोत्र मध्यमो ॥ ॥
[33] तदूनभुक्तिना हीनं खेचरेण बृहद्गतिः
- शीघ्रभुक्तिग्रहेणोनं मृदुभुक्विग्रहो भवेत् ॥ ॥
[34] ग्रहोदपघ्नो द्युगणः क्वहोद्धृतो गतोद्वया भाद्यवशेषकाद्ग्रहे
- क्षपस्वमकीद्वृहदल्पभुक्तिकि रवेद्ग्रहोप्येवेमिनोथवा भवेत्।
[35] अर्कवत्खचरभोदर्यै गतास्स्वोदयास्तदुदयावधिग्रह:
- प्रोक्तवद्रविविधू त्वनेकधा । स्वापमाप्तिविकलोक्तकर्मणा ॥ ॥
Ms. B: 31 b क्वहँ° 32 a °पर्यधैक्या° 33 c °मर्काद्वृहदल्पभुब्तिकि