पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/36

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3. द्युगणविधिः

[ अहर्गणानयने सामान्यविधिः ]

कोत्पत्ति-कल्प-युगयातसमा इन[१२]घ्ना मासान्विताः खगुण[३०]सङ्गुणिता अहोभिः ।
युक्ताः पृथ[क्त्व]धिकसङ्गुणिता इनाहैर्लब्धाधिमासदिवसैः सहिताः पृथक्स्थाः ॥ १ ॥
दिनक्षयघ्नाः शिशिरांशुवासरैरवाप्तहीनाहगणैविवर्जिताः ।
द्युराशयस्तेष्वग[७]भक्तशिष्टको दिनाधिपो मन्द-यम-द्युपादित:[1] ॥ २ ॥

[ अधिमासावमौ विनाऽहर्गणः ]

यातोऽर्कमासनिकरः क्षणदाकराहैर्निघ्नोऽर्कवासरहृतो गगनाग्नि[ ३०]निघ्नः ॥
तिथ्यन्वितः कुदिनसङ्गुणितो विभक्तश्चान्द्रद्युभिर्दिनगणः खलु वा स सैकः ॥ ३ ॥

[ अधिमासशेषज्ञानेन अहर्गणः ]

युगक्वहघ्रा रवियातवासराः खराम[ ३०]निघ्नाधिकशेषवर्जिताः ॥
विभाजिताः सूर्ययुगोत्थवासरैरहर्गणः स्यादथवैकसंयुतः ॥ ४ ॥


Text of Ms. A :

[1] कोत्पत्तिकल्पयुगयातसमा इनघ्ना मासान्विताः खागुणसंगुणिता अहोभिः

द्युक्ताः पृथ*धिकसंगुणिता इनाहैर्लब्दाधिम्पसदिवसैस्सहिताः पृथक्छाः ।। २६ ॥

[2] दिनक्षयघ्नाः शिशिरांशुवासरैरवामहीनाहगणैर्विवजिताः ।

द्युराशयस्तेष्टगभक्तशिष्टको दिनाधियो मन्मयमघुपाधिपः ॥ २७ ॥

[3] यातोर्कमासनिकरः क्षणदाकराहैर्निघ्नोर्कवासरहृत्तो गगनाग्निनिघ्नः

स्तिथ्यन्वितः कुदिनसंगुणितो विभक्तश्चंद्रद्युभिर्दिनगणः खलु वा भ्रसैक ॥ २८ ॥

[4] घृगक्वहघ्र्ना रवियातवासराः खरामनिघ्नाधिकशेषवर्जिताः

विभाजितास्सूर्ययुगोत्थवासरैरहर्गणस्स्पादथवैकसंयुतः ॥ २६ ॥

Ms. B: 1 d °धिमास्°  2 b °रवाप्त°  2 d दिनाधिपो  3d °चन्द्रघु°


^  1. मन्दः = शनिः, यमः = शनिः, द्युपः = रविः । कोत्पत्तिदिवसः शनिः, कल्पादिदिवसः , शनिः, युगादिदिवसः रविः। Also see infra, vs. 20.