पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/346

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 29-32 ] गोलवासना ३२३ शीतगोर्ह्यपरभागकाग्रका प्राङ्मुखी भवति चापराङ्मुखी । पूर्वभागसमुपाश्रिते यतस्तेन लग्नदिशि श्रृङ्गमुन्नतम् ॥ २९ ॥ [रविबिम्बदर्शनवासना] दिनदले दिवसाधिपतेरल क्षितिदलेन नरो निकटीकृतः ।

न सुखमुष्णकरं समवीक्षते खरमरीचिविनष्टितमध्यगम् ॥ ३० ॥

भूमिजे क्षितिनिरुद्धदीधितिर्दूरगश्च सुखमीक्षते ततः ॥

सोऽरुणोऽलघु पटुः खमध्यमे रश्मिजालपरिवेष्टनाल्लघु ॥ ३१ ॥°

[दृक्कर्मग्रहयुतिवासना] दृष्टिकर्म चरकर्मवत् कुजे क्षेपकेन विधिवद् विधीयते । क्षेपयोः समदिशोः समानयोरेकवर्त्म चरतस्तदा ग्रहौ ॥ ३२ ॥* Text of Ms. A : [29] शीतगार्धपरभाग्रका प्राङ्मुखी भवति चापराङ्मुखी पूर्वभागसमुयाश्रिते यतस्तेन लग्नदृशि श्रृङ्गमुन्नतम् ।

[30] दिनदल दिवमधिपतिरलं क्षितिदलेन नरो निकटाकृतः

नसुखमुषा। करं समवीक्ष्यते नरमरीचिवदष्टकमध्पगम्। [31] दिभूमिजे क्षितिनिरुद्धदीधितिर्मुलगश्च मुखमीक्षते ततः सारुणो लघु यटुः स्वमद्यमो रश्रेजालयरिवेष्टनाल्लघुः ।

[32] दृष्टिकर्मचरकर्मवत्कुजे क्षेपकेन विधिवद्विधीयते

क्षेयकयोस्समदिशो: समानयोरेकवर्त्म चरतेस्तदा म्रहो 1. Cf: LG, iii. 44. 2. Cf. LG, iii. 46(c-d)-47(a-b). 3. Cf: LG, iii. 48(c-d)-49(a-b).