पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/340

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. गोलवासना' [मध्यगतिवासना}

सूर्यभुक्तिकलिकासमासुभिः सावनो भदिवसाद्यतोऽधिकः ।
तेन सूर्यपरिवर्तसावना भोदयाः स्युरिनप[र्य]यैर्युताः ॥ १ ॥*

नाडिकाभिरिभबाहु[२८]भिर्यतो दिक्[१० ]पलैस्समधिकाभिरूनिते । मासि सावन इनेन्दुसङ्गमो दृश्यतैणधरमासकश्च सः ॥ २ ॥* धृति[१८]पलाधिकषड्भुज[ २६]नाडिकाभ्यधिकसावनमासि रवेर्यतः ॥ विधृभवादधिकोऽयमतोऽर्कजैः षडगनन्द[९७६]दिनैरधिमासकः ॥ ३ ॥* अत एव खरांशुमासिका अधिमासैः सहिताः क्षपाकृतः ॥ तिथयश्च कुवासरोनितास्तिथिनाशा अनया दिशाऽपरम् ॥ ४ ॥* Text of Ms. A : [1] सूर्यभुक्तिकलिकासमासुभिः सावनो भदिवसाद्यतोधिकः तेन सूर्यपरिवर्तसावना र्भादयास्स्पुरिनपयैर्युताः ।

[2] नाडिकाभिरिभवाहुभिर्यतो दिक्पलैस्समधिकाभिरुनितै
मासि सावनमिनेन्दुसङ्गमो दर्शनेनधरमासकश्च सः ।
[3] धृतिपलाधिकषड्भुजनाडिकाभ्पधिकसावनमासि रवेयतः

विधुभवादधिकोपमतोर्कजैः षडगनन्ददिनैरधिमासकः

[4] अत एव खरांशुमासका अधिकाः क्षयाकृतः

तिथयाम्पो कुवासरोनितास्तिथिनाशादनयोदिशापरम् । 1. This chapter has been reconstructed by collecting together in proper order three fragments of the chapter, the first consisting of the opening verses 1-11, the second consisting of the central verses 12-22, and the third consisting of the closing verses 23-33. 2. Cf. LG, iii. 1. 3. Cf. LG, iii. 2. 4. Cf. LG, iii. 3-4. 5. Cf: LG, iii. 5.