पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/329

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2. छेद्यकम्, [ग्रहगतिपरिलेखविधि:]

गृहभागकलाङ्कितां हि स्वा कक्ष्यां व्यासदलादथालिखेत् । 

द्युसदां परिकल्पयेत् क्षमां तन्मध्ये नृमुखोद्धृतिक्षमाम् ॥ १ ॥* ख[च]रान्त्यफलस्य शिञ्जिनीं भूकेन्द्रान्निजतुङ्गगामिनीम् । प्रवितत्य तदग्रकादल कक्ष्यामण्डलमालिखेत् स्वकम् ॥ २ ॥* प्रतिमण्डलमेतदीरितं वलयं केन्द्रभवं निरक्षजम् ॥

अनुलोममिदं स्फुटग्रहः स्फुटभुक्त्या भ्रमति स्वमन्दतः ॥ ३ ॥*

शीघ्रात् प्रतिलोमसादितः कक्ष्यामण्डलचारतः क्रमात् ॥* नीचोच्चकवृत्तमालिखेत् केन्द्रं तस्य खगे विधीयते ॥ ४ ॥ Text of Ms. A : [1] गृहभागकलंकितो लिस्वेत्कंक्ष्यां व्पासदलाद्यथा लिखेत्

द्युसदां परिकल्पयेक्षमां तन्मध्पे नृमुखोद्धृतिक्षमाम् ।

[2] खरान्त्पफलस्प शिंजिनी भूकेन्द्रं निजभुजंगगामिनीम् प्रवितत्ष तदग्रकादेलं कक्ष्यामण्टलमालिखैश्चलम । [3] प्रतिमण्डलमेतदीरितं वलयं केन्द्रभवं निरस्पजम् अनुलोममिदं स्फुटग्रहः स्फुटभुक्तया भ्रमति स्वमन्दतः । [4] शीघ्राप्रतिलोमसादितः कक्ष्यामण्डलचारतः क्रमात् नीचोञ्चावृतमालिखेर्केद्रं तु खगे द्विधा यत: । 1. This chapter has been reconstructed by collecting together two fragments of the chapter, the first consisting of the opening verses 1-7 and the second consisting of the closing verses 8-15 of this chapter. 2. Cf. LG, i. 7. 3. Cf: LG, i. 8. 4. Cf. LG, i. 12(a-b). 5. Cf: LG, i. 13(a-b).