पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/323

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

298 वटेश्वरसिद्धान्ते समागमाधिकारे [अधिकार: VIII

[ग्रहभानां छायादिकर्म]

ग्रहभानां हिमकरवत् त्रिप्रश्नोक्तं प्रभादिक कार्यम्। इह नोक्ता यास्तारा नानायत्नैश्च तास्साध्याः ॥ २५ ॥ [भग्रहयुतिकालः] द्युसदां सङ्क्रमसमयः कैश्चिन्निरूपितो गणकैः ॥

दृग्गणितैक्यं येषां स्फुटः स तेषां न तद्भेदः ॥ २६ ॥

[ सप्तषिचारः।]

नगदृग्[२७]गुणितैः वर्षेः कलेः शता[१००]ख्यैर्भमाप्यते मुनिभिः ॥ अथवा कलिगतवर्षेर्मनू[१४]नितैश्चापरेषां तैः ॥ २७ ॥
पूर्वो मरीचिरपरस्ततो वसिष्ठस्ततोऽङ्गिराश्चात्रिः ॥
तदनु पुलस्त्यः पुलहः क्रतुरिह मुनयः क्रमेण ते [भुङ्क्ते ] ॥ २८ ॥

[वसिष्ठपत्नी अरुन्धती]

सूक्ष्मा वसिष्ठपत्नी जगज्जनित्री त्वरुन्धती साध्वी ॥ यद्दर्शनेन मर्त्या विधूत[पापाः प्रयान्ति ग्रहलोके] ॥ २९ ॥

Text of Ms. A : [25] ग्रहभानां हिमकरवत्त्रिप्रश्नोत्तप्रभादिक कार्यम्। इह नोक्ता यास्तारा नानायत्नैश्च तास्साध्पाः

[26] द्युसदां संक्रमसमसमप: कैश्चिन्निऊपितौ र्गणकै:

दृग्गणितैक्यं येषां स्फुटस्स तेषा न तद्भेदः

[27] नगदृग्पुते वर्षः कलेः शताख्पैर्भमाय्पते मुनिभिः

चेद्गरुवर्षेर्मनूनितेः चापरेषां तैः

[28] पूर्वे मरीचिरयरस्ततो वसिष्टस्ततोङ्गिराः चात्त्रिः । 

तदनु पुलस्त्पः पुलहः कतुरिति यु क्रमेण ते

[29] सूक्ष्मो वासिष्टयत्नी जगज्तनित्री त्वरुन्वती साध्वी 

यद्दर्शनेन मर्त्पा विधूत .... ...Samskritabharatibot (सम्भाषणम्)-------