पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/317

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

292 वटेश्वरसिद्धान्ते समागमाधिकारे [अधिकार: VIII [कलाकरयोः सम्बन्धः] उदयास्तयोः कलानां द्वासप्तत्या [७२] करोऽथ मध्याह्ने । षट्सहितया नवत्या [९०+६] तदन्तरे चानुपातेन ॥ १० ॥ समप्रोतीया युतिः

[समप्रोतीययुत्यध्ययने हेतुः]
त्वष्ट्रास्वातिवदुदये दृग्योगे यद्यदन्यथाऽस्तमये ॥
तत्तत् स्याद् दिविचरयोदृग्गणितैक्यं ब्रवीम्यस्मात् ।। ११ ॥

[समप्रोतीययुतिकालसाधनम्] अधिकदिनोदितगुणितादूनदिनादधिकवासराप्तं यत् ॥ तच्चोनदिनाभ्युदितादधिकं भावी गतोऽन्यथा योगः ॥ १२ ॥ तद्विवरमाद्यमेवं द्वितीयमपि चेष्टनाडिकाभिः स्यात् ॥ गतयोरन्तरघटयाऽन्यथा समासेन भाजयेत् प्रथमम् ॥ १३ ॥ इष्टघटीसंगुणितं प्रथमवशादाप्तघटिकाभिः ॥

भूताऽथ भाविनी वा समकलकाला[द]भ्युतिः ग्रहयोः ॥ १४ ॥

ग्रहयुतिविधिः प्रथमः Text of Ms. A : [10] उदयास्तयोः कलानां द्वासप्तत्पा करोथ मध्याह्ने

म्रट्सहिताया वनत्पा तदन्तरे वानुयातेन 

[11] त्वाष्ट्रास्वातिवदुदये दृग्पोगे यद्यदन्पथास्तमये यद्यत्स्पाद्दिविचारयोर्दृगातिरैक्यं व्रवीम्पस्सात्

[12] अधिकगुणोदिनोदितगुणितादधिकवासराप्तं पत्

तच्चोनदिनाभ्पुदितादधिकं भावे गतोन्पथा योगः [13] तद्विवरमाद्यमेवं द्वितीयमयि देष्टनाडिकाभिः स्पात् गतयोयान्तरयुत्पान्पथा सस्पसेन भाजयेत्प्रथमात् [14] इष्टघटीसंगुणितं प्रथमवशादाप्तघटिकाभिः भूताथ भाविनी वा समकलकालाम्पुतिः ग्रहयोः । ग्रहयुतिविधिः द्यथप्तः ॥