पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/316

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] ग्रहयुतिविधिः 291 [युतिकाले ग्रहान्तरम्] मन्दस्फुटाद्दिविचरात्तत्कालभवात्स्वपातयुक्ताज्ज्या।

निजबाणगुणा भक्ता स्वशीघ्रकर्णेन विक्षेपः ॥ ५ ॥ स[म]भिन्नदिशोः शरयोविवरैक्यं खेचरान्तरं ज्ञेयम् ॥
दिक्छरयोगे शरवद्दिगन्यथाऽनल्पबाणस्य । ६ ।

[भेदयुतिः।]

बिम्बैक्यार्धाच्छुद्धे विवरे भेदोऽत्र भेदकोऽधःस्थः ॥ इन्दुग्रहणवदखिलः स्थित्यर्धाद्यो विधिः कार्यः ॥ ७ ॥

[चन्द्रविभेदः]] चन्द्रविभेदेऽवनतिर्विधू[द]याल्लम्बनं च संसाध्यम् ॥

भेदे वेष्टग्रहयोर्निजोदयाल्लम्बनावनती ॥ ८ ॥

[युतिकालेऽक्षदृक्कर्म] दृष्टिफलं स्वनतघ्नं स्वदिनार्धहृतं समग्रहे प्राग्वत्।

विवरे हयुतरखचरे सौम्यविधिर्दक्षिणे याम्यः ॥ ९ ॥

Text of Ms. A :

[5] मन्दस्फुटाद्दिविवरात्तत्कालभवात्स्वायातयुक्ताज्ज्पा

निजवाणगुणा भक्ता । त्रिस्वशीघ्रकर्णनविक्षेयः [6] सभित्त्रदिशोः शरयोर्विवरैक्यखेवरान्तरं क्षेपः

दित्कुरयोगे शरवद्विध्पस्ताल्पवाणस्प
[7] विम्छैक्यार्धाछुद्वो विवरे भेदोत्र भेदकोधःस्थः

इन्दुग्रहणवदखिलस्तित्पर्धाद्यो विधिः कार्यः

[8] चंद्रविभेदेवनतिर्विधूपालम्छनं संसाध्यम्

भेदवेष्टग्रहयोर्निजोदयाल्लम्छनाद्वतती

[9] दृष्टिफलं स्वनतघ्नं स्वदिनार्धहृतं समग्रहे प्राग्वत्

विवरो द्योत्तरखचरे सौम्पाविघिर्दक्षिणे याम्प: