पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/311

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

286 वटेश्वरसिद्धान्ते श्रृङ्गोन्नत्यधिकारे अधिकार: VI।. चन्द्राङ्गुलबिम्बगुणं खधीन्दु[१८०]भक्तं तदङ्गुलानि स्युः ॥ निजदिशि बाहुः चिह्नात्तदग्रतः प्राङ्मुखी कोटिः ॥ ३५ ॥

शुक्लेऽसिते प्रतीच्यां कर्णः प्राग्वदग्र[द्वय]युतिगविधुः ॥ कर्णस्तत्प्रागपरे तन्मत्स्याद्दक्षिणोदीच्यौ ॥ ३६। 

श्रुतिसूत्रे परभागात् सितमसितं प्राङ्मुखं सितासितयोः ॥ तद्याम्योत्तरबिन्दुत्रयभित्परिलेखनं तिमियुगेन ॥ ३७ ॥ [परिलेखविधिः तृतीयः] वोदयलग्नेन्द्वोः प्रागपरकपालेऽस्तलग्नहरिणभूतोः । क्रान्त्यन्तरसंयोगः समान्यककुभोः ककुप्प्राग्वत् ॥ ३८ ॥ शशिभाश्रुत्यक्षश्रुतिगुणितः सूर्या[१२]हतत्रिगुणभक्तः ॥ अथवेन्दुभाश्रुतिघ्नो निजावलम्बज्यया भक्तः ॥ ३९ ॥ फलपलभायुतिविवरं लग्नाद्याम्योत्तरे विधौ बाहुः।

द्वादशिकाऽग्रा कर्णो भुजाग्रयोर्वर्गयुतिमूलम् ॥ ४० ॥

Text of Ms. A : [35] वंद्राङ्गुलविम्छगुणं विधेन्दुभक्त' तदङ्गुत्वानि स्पुः निजदिशि वाहुश्चिह्नात्तदग्रेतः प्राङ्मुखी कोटिः

[36] शुक्लसिते प्रतीवी कर्णः प्राग्वदग्रयुतिगविधुः

कर्णस्तत्प्रागयरे तन्मनाग्दक्षिणोदीच्पो

[37] श्रुतिसूत्रे परभागात्सितासितं प्राङ्मुखं सितासितयोः तद्याम्पोतुरविंदुत्रयमित्परिलेखनात्तिमियुगेन 

[38] वोदयलग्नोर्केन्द्वोः प्रागयरकपालेः नुलग्रहरिणमृत्पोः क्रान्त्पन्तरसंयोगः सामान्पककुभोः ककुप्प्राग्वत् ।

[39] शशिभाम्प्रुत्पक्षश्रुतिगुणिताः सूर्यतस्त्रिगुणभक्तः

अथवेन्दुमाश्रुतिघ्नो निजावलम्छज्पया भक्तः

[40] फलयलभायुतिविवरं लग्नाद्याम्पोतुरो वेधौ वाहु
र्द्वादिशिकाग्रा कर्णौ भुजाग्रयोर्वर्गयुतेर्मूलम्