पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/309

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ वटेश्वरसिद्धान्ते श्रृङ्गोन्नत्यधिकारे अधिकार: V।। सितशशिपरिमाणार्धान्तरस्येह वर्गः शशिमितिदलवर्गस्तद्द्वयोगस्य खण्डः ॥ शशिपरिमितिभेदश्वेतदूरेण [भ] क्तो भवति लिखनसूत्रं श्रृंगसंस्थान इन्दोः । २६ । [द्वितीयविधिः]

शुक्लमानशशिमानभेदयोरन्तरेण शशिभेदमाहतम् । 

दृक्[२]समं हरनिशाकरार्धयोरन्तरद्विगतसंयुतं हरेत् ॥ २७ ॥ अन्तरेण कर[२]संगुणेन यल्लभ्यते तदिह वाऽपि सूत्रकम्। [तृतीयविधिः]

मानपादकृतिरुद्धूता युता शुक्लभामितिदलान्तरेण वा ॥ २८ ॥

[अङ्गुलीकरणम्] भुजकोटिकर्णमितयः स्वेष्टविभक्ताः स्फुटाङ्गुलानि स्युः । अङ्गुललिप्ताभक्ताः शशिसितपरिलेखसूत्रकलाः ।॥ २९ ॥ Text of Ms. A : [26] सितशशिपरमाणार्धान्तरस्पेह वर्गः शशिमितिदलयोगे सतियोगावतंसो शशिपरिमितिदलयोगे सत्रियोगावतंसो

शशियरिमितिभेदश्चेतदूरेण क्वौ

भवति लिखनसूत्रं श्रृगसंस्थान इक्षोः ।

[27] शुक्लमानशशिमानभेदयोरन्तरेण शशिदभेमाहृतम्

द्विसमन्नरनिशाकरार्धयोरन्तरं द्विगतसंयुतं हरत्

[28] अन्तरेण करसद्भुङ्गुणेन पल्लभ्पते तदिह वापि सूत्रकम्

मानपादकृतिरुद्धुता युता शुक्लमापितिदलान्तरेण वा [29] भुजकोटिकेटिकर्णमितयः स्वेष्टविभक्ताः स्फुटाङ्गुलानि स्पुः अङ्गुललिप्ताभक्ता शशिमितयरिलेस्वसूत्रकलाः