पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/307

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

202 वटेश्वरसिद्धान्ते श्रृङ्गोन्नत्यधिकारे अधिकार: VII [चन्द्रस्य स्फुटविम्बसाधनम्] शशिशङ्कुधनुर्युतोनितं स्फुटबिम्बार्धकलाभिरुज्ज्वले । असिते वियुगान्वितं स्फुटं पक्षे प्रागपरार्धयोः क्रमात् ॥ १६ ॥ [चन्द्रस्य याम्योत्तरवृत्तसंक्रमणकालः]

एवमिष्टसमयप्रसाधिताः शीतगोर्विधिवदुन्नतासवः । तद्द्युखण्डसदृशा यदा तदा शीतगुर्द्युदलगो भवत्यसौ ॥ १७ ॥

चन्द्रश्रृङ्गोन्नतिः [बाहुकोटिकर्णसाधनम्] बाहुमुक्तवदभीष्टकालिकां शीतगोर्दिनकृतश्च साधयेत्। तत्समासविवरं भुजः स्फुटो भिन्नतुल्यककुभोदिगस्य तु ॥ १८ ॥ अन्तरेऽर्कभुजतो विपर्ययादिन्दुबाहुककुभन्यथा भवेत् । दृग्गुणस्वभुजवर्गयोः क्रमादन्तरस्य पदमिन्दुभास्वतोः ॥ १९ ॥ तत्समासविवरं कपालयोराद्य अन्यसमदिक्समुत्थयोः ॥ चन्द्रतिग्मकरशङ्कुजीवयोरन्तरैक्यमपरस्त्वहनिशोः ॥ २० ॥ Text of Ms. A : [16] शशिशंकुधनुर्यतोनितं स्फुटविवाधकलाभिरुज्ज्वले असिते वियुगन्वितं स्फुटं यक्षे प्रागपरार्धयोः क्रमात् [17] पवमिष्टसमयप्रसाधिताः शीतगोविधिवदुन्नतासवः । तद्द्युस्वण्डसदृशा यदा तदा शीतगुर्गुदलगो भवत्पसौ

[18] वाहुयुक्तवदभीष्टकालिका छीतगोर्दिनकृतः च साधयेत्

उन्ममासविवरं भुजस्फुये भिन्नतुल्पककुभोदिशस्प नु [19] अन्तरेर्के भुजजे विपर्ययाद्विम्दुवाहुककुभन्पथा भवेत् दग्गुणस्खभुजं वर्गयोः क्रमादन्तरस्प वदमिन्दुभास्वतोः [20] तत्समासविवरं कलाययोराद्य इन्द्रकमिदिक्तमुत्थयोः चंद्रतिग्मकरशंकुञ्जीवयोरन्तरैक्यमपरस्त्वडनिशोः ॥