पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/303

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

VII. श्रृङ्गोन्नत्यधिकारः

1. शृङ्गोन्नतिविधिः

चन्द्रोदयः [ उपोद्घातः]

रविचन्द्रभुजांशभिर्विधोः साध्यः पूर्ववदुद्गमोऽसिते ॥
निशि चास्तमयः सितेऽन्यथा नैतत्स्याद्वदनान्तरांशकैः ॥ १ ॥

[ चन्द्रोदयास्तकालसाधनम् } [मासस्य प्रथमचरणे]

उदयेऽह्नि सितेऽर्कचन्द्रयोरुक्तः प्रोक्तवदुद्गमो विधोः ॥ सभखण्डविधूष्णतेजसोदिवसान्तेऽस्तमयः क्षपाकृतः ॥ २ ॥
नक्तं वाऽस्तमयः सभार्धयोः स्फुटदृग्विधिनाऽन्तरासवः ॥ शीतांशोरसकृत्तदन्तरात् भगणार्धयुतार्कचन्द्रयोः ॥ ३ ॥

[मासस्य द्वितीयचतुर्थचरणयोः} असितेऽर्कमृगाङ्कयोः सिते षड्गेहाधिकभानुसोमयोः ॥

उदयो रजनीद्युशेषतो असकृद्विधिना हिमद्युतेः ॥ ४ ॥

Text of Ms. A : [1] रविचन्द्रहिमांशुभिर्विधोः साध्पः पूर्ववदुद्गमः सिते निशि चास्वमयंस्सितेन्पथा नैकद्याद्वदनोन्तरान्तगै: [2] उदयेह्नि सितेर्कचंद्रयोर्नोक्तं प्रोतवदुद्गमो विधो: सभखण्डविधूम्रतेजसोर्दिनयान्तेस्तमयोः क्षयाकृतः ।

[3] नक्तं वास्तसमयस्सभागयौः स्फुटदृग्विधिनान्तरासवः शीतांशोरसकृदन्तरात् भदलार्धयुतार्कत्वंद्रयोः
[4] असितेर्कमृगाङ्कयोः सिते षड्गेगाधिकारभानुसोमषोः

उदयौ रजनीद्युशेषतौ असकृदृग्विधिना हिमद्युतिः