पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/295

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

7. छेद्यकप्रश्नविधिः विषुवद्वलनायनाख्ययोर्दिग्ज्याभिः त्रिगुणस्य मण्डले । ग्रहमध्यविमुक्तिसंस्थितिं जानन्तः परिलेखविद्वराः ॥ १ ॥ मानयोगदलमण्डलेsथवा ग्राह्यमानवलयेऽपवर्त्य वा ॥ वृत्तयुग्मपरिलेखकावुभौ वेत्ति य: स परिलेखतत्ववित् ॥ २ ॥ निमीलनोन्मीलनके तथेष्टग्रासं स्वकर्णाग्रभुजैर्विदध्यात् ।

मार्गेण वा छादकसंज्ञकस्य स्वदिगुणैर्वा गणकः पटुस्सः ॥ ३ ॥

अध्वकालममृतद्युतिग्रहाद् वेत्ति मार्गगतयोजनान्यतः ॥ छाद्यछादकमिती च मध्यमाद् ग्रासतस्स पटुरुच्चकैर्भुवि ॥ ४ ॥ प्रासमिष्टसमयादभीष्टकाद् ग्रासतश्[च] समयस्य नाडिकाः ।

पर्वणः स्वतिथिनाडिकाः क्रमात् वेत्ति यस्स। गणकाग्रणीर्मतः ॥ ५ ॥

Text of Ms. A : | i] विषुवद्वलनायमाख्पयोदिग्ज्पाभिः विगुणस्प मण्डे ग्रहमध्पविमुक्तिसंस्छितं जानन्तः परिलेखदिद्धरः ।

[21 मानयोगदलमण्डेलेथवा ग्राह्यमानवलयेयवन्पय:

वृत्तयुग्मपरिलेखकावुर्भा वेत्ति यस्स परिलेखतञ्ववित्

[3] निमोलनोन्मीलनके तथेष्टग्रासं स्वकर्णाग्रभुव्रैर्विदध्पात्

। मार्गेण वा छादलकसंज्ञकस्प रवदिग्नणैर्वा गणकः यष्टुस्सः ।

[4] अध्वकालममृतद्युतिग्रहाद्वेत्तिमार्गगतयोजनान्पतः

कादकाधुतिर्मितीदमध्पमाद्गासतस्स, पटुरुश्चकैर्भुवि ।। 5 ग्राममिष्टसमयाभीदष्टकाद् गासतस्समयं स्वनाडिकाः । यर्वचस्वतिथिनाडिकाः क्रमाद्वेत्ति यस्स गणकाग्रणीर्मतः ।

Ms, B: 1, c संस्थितं 2 बुभी 3d पटुस्सः