पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/293

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

298 वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V तौलितो धनमृणं क्रियादितो दोः कुवृत्तचरणरतिदूनितः ॥ कोटिरग्नियम[२३]योजनैर्धनुस्तेन चोक्तवदिहाग्रदोर्गुणौ ॥ १६ ॥ [ लम्बनानयनम्] क्रमेण जीवा नतनाडिकाभ्यो हताऽग्रमौर्व्या त्रिगुणार्धकृत्या ।

हृता भवेल्लम्बननाडिकास्तास्तिथौ क्षयःस्वं विधिवत्पुनश्च ॥ १७ ॥

[ नतेः चन्द्रशरस्य चानयनम्।] मध्यभुक्तिविवरेण ताडितं दोर्गुणं तिथि[१५]गुणत्रिभज्यया ॥ भाजयेदवनतिर्भुजावशादिन्दुबाणयुतवर्जिता स्फुटा । १८ ॥ [वलनादीनां साधनम्]

प्राग्वदक्षवलनानि साधयेत्केन्द्रतोऽज[११]लवसंयुताद्रवेः ॥ उत्क्रमापममिनस्य शीतगोः केन्द्रगोलविपरीततद्दिशम् ॥ १९ ॥ अन्यदुक्तवदशीतगु[ग्रहे] क्षेपकादि विधिवत्प्रयोजयेत्। दिक्प्रदर्शनमिहेरितं मया युक्तितश्च सकलं विचिन्तयेत् ॥ २० ॥

Text of Ms. A :

[16] तौलिनो घनमृणं क्रियादितो दोः कुवृत्तचरणस्तद्वनितः कोटिरग्नियमयोजनैर्घनुस्वेन वोक्तवदिहाग्रदे । गुणौ । 

[17] क्रमेण जीवा नतनाडिकाभ्पो हताग्रमौर्व्पा त्रिगुणार्धकृत्पा हृता भवेल्लम्छमनाडिकास्तास्तिथौ क्षयः स्वं चिधिचत्पुनश्च । [18] मध्पभुक्तिविवरेण ताडितं तद्दोर्गुणं तिथिगुणं त्रिभज्पया भाजयेदवनतिर्भुजावशादिन्दुछाणयुतवर्जिता स्फुटा

[19] प्राग्वदक्षवलनानि साधयेत्केन्द्रभोजलवसंयुताद्रवेः

उपक्रमायमपिनस्प' शीतगोः केन्द्रगोलविपरीततद्दिशम् ।

[20] अन्पदुतवदशीतगुछेद्यकादि विधिवत्प्रयोजयेत्।

दिक्प्रद्रर्शनमिहेरितं मया युक्तितश्च सकलं विचिन्तयेत् । Ms. B: 16d दिहाग्रदोगुणौ । 17 c ‘लम्छन° 17d चिचिचत्पुनश्च ।