पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/283

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V' [ग्राह्मवृत्ते परिलेखविधिः] प्रग्रहग्रहविमुक्ति[जौ] शरौ ग्राह्यखण्डगुणितौ तदग्रतः ॥ मानयोगदलभाजितौ न्यसेत्। केन्द्रतोऽवितथमेव मध्यजम् । १८ । दिग्गुणं स्वमपि खण्डयेत्तथा ग्राहकार्धमितकर्कटेन तत् । ग्रासमानमितरे शराग्रयोर्वा स्थिती ग्रहविमोक्षयोः स्फुटे ॥ १९ ॥ तद्विभेदि ककुभां समागमान्मानयोगदलसूत्रमानयेत् ॥ २० ॥ तदग्रमध्येषुसुमण्डलैर्झषद्वयेन वृत्तं गतिमाह तैरिदम् ।

अभीष्टकर्णौ ग्रहमोक्षसम्भवौ निमीलनोन्मीलनजौ च केन्द्रतः ॥ २१।
प्रसारयेद् ग्राहक[मा]र्गसंस्पृशौ विधुग्रहे प्रागपरौ विपर्ययात् । इनग्रहेऽस्माच्च लिखेन्निजाकृतिं यथोक्तवच्चान्यदपि प्रसाधयेत् ॥ २२ ॥

{त्रिज्यावृत्तमानैक्यार्धवृत्तपरिलेखयोः कोटिदानम् } त्रिज्यकाभिनिहतैवमग्रका मानयोगदलसङ्गुणा हृता । कर्णकेन विधिवत्प्रसारिता त्रिद्विवृत्तपरिलेखयोरपि ॥ २३ ॥ Text of Ms. A : [18] ग्रडकेग्रहविभक्ति शरौ ग्राह्मखण्डगुणितो उदग्रत:। मानयोगदलभाजितो न्यसेत्केन्द्रता वितथमेव मध्पजम् ।

[19] दिग्गुर्ण स्वमभि खण्डयोत्तभो ग्राहकार्कमिहकर्कटेन तत् । ग्रासमानमितरो शराग्रयुग्वामती ग्रहविमोक्षयोः स्फुटे ।
[20] तद्विभेदि ककुभात्समागमात्मानयोगदलसूत्रमानयेत्।
[21] उदग्रमध्पेषुसुमण्डलेर्झषद्वषेन वृत्तं गतिरादृतेरिदम् । . अभीष्टकर्णग्रहमाक्षसंभवौ निमीलनोन्मीलनजौ च केन्द्रत: 

[22] प्रसारये ग्राहकर्गसंस्पृशौ विधुग्रहे प्रागपरी विपर्ययात् । इनग्रहेस्माच्च लिखेनिजाधृति यथोक्तवत्तेवोक्तवदन्पत् । (23] त्रिज्पकाभिनिहितैवमग्रगा मानयोगदलसंगुणा हृता

कर्णकेन विधिवत्प्रसारिता द्वित्रिवृत्तयरिलेखयोरपि

Ms. B: 23 c Between कर्णको and विधि Ms. B inserts 'गत इयो प्रथममध्पमयोर्विशेष' due to oversight. See 25 a.