पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/282

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 4] परिलेखविधि: 257 [ शशिरविग्रहणयोः विशेषः]

प्राङ्मुखो ग्रास इन्दोः । प्रत्यग्बाहुः मुक्तिकाले खरांशो: व्यस्तस्तस्माद् ग्राहकार्धेन खण्डम् ॥। ॥ १३ ॥

[त्रिज्यावृत्ते परिलेखविधिः]

स्पर्शमुक्तिजशरौ समाहतौ त्रिज्यया मितिदलेन भाजितौ । त्रिज्यकाख्यवलये स्वदिङ्मुखं केन्द्रतश्च कथितोऽत्र मध्यमः ॥ १४ ॥ ग्राहकं परिलिखेद् ग्रहादिकं ज्ञातुमिष्टमिह खण्डघमण्डले । प्राग्वदिष्टजनिमीलनादिकं स्वैर्महद्वलनकैहि मण्डले ॥ १५ ॥

[मानैक्यार्धवृत्ते परिलेखविधिः] दिग्ज्याः प्रमाणदलयोगसमाहताः स्युः त्रिज्योद्धृता मितिसमासदलाख्यवृत्ते ।

नेयौ तदग्रगशरौ ग्रहमोक्षजातौ मध्यात्स्वदिङ्मुखमभि ग्रहमध्यबाणः ॥ १६ ॥
द्विमण्डलेऽन्यदुक्त्तवन्निमीलनेष्टपूर्वकम् । 

त्रिभज्यकाख्यमण्डले यथा तथा यथोक्तवत् ॥ १७ ॥ Text of Ms. A :

[13] दोः कोद्यग्रे केन्द्रतः कर्णसूत्रं दोस्संसक्तं प्राङ्मुखो ग्रास इन्दोः

प्रत्पग्वाहु मुक्तिकाले खशराशोः व्पस्तस्तस्माद् गासकार्धेन खण्डम् । [14] स्पर्शमुक्तिजशरौ समाहितौ त्रिज्पया मितिदलेक भाजितो त्रिज्पकाक्षवलये खदिङ्मुस्वा: केंद्रतस्प कथितोत्र मध्पमः।

[15] ग्राहक परिलिखेद् ग्रहादिकं ज्ञातुमेत्य इहा स्वण्डयमण्डले

प्राग्वदिष्टजनिमीलनादिकं खैर्मवद्वलनकौर्द्विमण्डले ।

[16] द्वग्ज्पाः प्रमाणदलयोगसमाहताः स्पुः । त्रिज्पाद्धृता मितिसमासदलाख्पवृत्ते

चेर्या स्वदग्रगशरौ ग्रहमोक्षजातौमध्पात्सुदिङ्मुखमरिभिग्रहमध्पवाणः [17] द्विमण्डलेन्त्पदुक्तवन्निमीलनेःष्टपूर्वकम् त्रिभज्पकाक्षमन्डलं विहृता यथोक्तवत्

Ms. B : 14 c स्वदिङ्मुस्वाः 15d स्वै° 16 d •ৰাগঃ