पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/279

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. परिलेखविधि: [उपोद्घातः]

स्पष्टाः परिलेखे स्युः [प्रग्रहण]ग्रासविशेषा यस्मात् । स्फुटमस्माद्वक्ष्येऽहं [सूर्येन्दुग्रहण]परिलेखम् ॥ १ ॥

[सामान्यपरिलेखविधिः]

[वृत्तत्रयलेखनम्] 

ग्राह्य लिखेत्कर्कटकेन भूमौ तन्मानखण्डाङ्गुलसम्मितेन । बिम्बार्धयोगप्रमितेन चान्यत् त्रिज्याख्यमन्यत्त्रिगुणायतेन ॥ २ ॥ एकत्र केन्द्रत्रयमस्त्यमीषां रेखा तथा प्रागपरायतैका । याम्योत्तरा तत्तिमितोऽपि तत्र [त्रिज्यावृत्ते वलनदानम्]

त्रिज्याख्यवृत्ते शिशिरोष्णदीप्त्योः ॥ ३ ॥
प्राक् स्पर्शमोक्षप्रभवं विमुक्तिप्रग्रा[स]जं दिग्वलनं च पश्चात् ॥ याम्योत्तरे ज्यार्धवदत्र देयं सौम्येऽथ याम्ये त्वपसव्यवृत्या ॥ ४ ॥

Text of Ms. A : [1] स्पष्टाः परिलेखे स्पुः ग्रासविशेषा यस्मात् स्पुटमस्माद्वक्ष्पे परिलेखम् । [2] ग्राह्यं त्विखेत्कर्कटकेन भूयौ तन्मानखण्डङ्गुलिसम्मितेन विन्छार्धयोगप्रमितेन चान्पत्स्थित्पर्धमन्पत्त्रिगुणायतेन [3] पकत्र केंद्रत्रयमप्पमीषां रेस्वा तथा प्रागयरायतेक याम्पोतुरा तत्तिमितोति तात्रा त्त्रिज्पाक्षवृत्ते शिशिरोष्णदीप्त्पोः । [4] प्राक्स्पर्शमोक्षप्रभवे विमुक्तिप्रागाजे दिग्वलनो च यश्चरत् । याम्पोतुरे ज्पाधवदतुकेश सौख्पेन सौम्पे त्वपसव्पवृत्पा Ms. B : 2 a लूयौ 3 c °ति तात्ता