पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/248

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

15. स्फुटः प्रश्नाध्यायः [उपोद्घातः ]

त्रिप्रश्नप्रश्नसंख्यां कथमपि गणकैः शक्यते नावगन्तुं भानाडीज्याविधीनामत इह लघुकं स्पष्टशब्दार्थयुक्तम्।
प्रश्नाध्यायं विधास्ये नृपसदसि समाकर्ण्र्य यद् गोलबाह्याः
म्लानि यान्त्य[प्र]बोधा मतिमलपटलोद्दोलनेन प्रचण्डम् ॥ १ ॥

[प्रश्नाः]

भाप्रवेशनविनिर्गमनाद् यो भात्रयेण ककुभः कथयेद् वा ॥ भान्वपक्रमपलैश्च विना यो भाभ्रमं प्रकथयेद् गणकः सः ॥ २ ॥

वेति दिशोऽपमभा[ग्र]पलैर्यो वेति द्युतिभ्रमतो द्युदलाभा । मध्यदिनद्युतितोऽर्कमवैत्य स्वाक्षजभां कुरुते गणकः सः ॥ ३ ॥ वीक्ष्य रवेरुदयं रविविद् यो यष्टिविधेनिखिलोर्ध्वमिति वा । वेत्ति पलश्रवणं [पल]भामप्यक्षगुणादपि भाविधिवित् सः ॥ ४ ॥ Text of Ms. A :

[1] त्रिप्रश्रप्रश्ररांख्या कथमपि गणकैः शक्यते नावगंतुम् ।

मानाडयज्पाविधीनामत इहृ लघुकं स्पष्टशब्दार्थमुच्पे: प्रश्नाध्पायं विधास्पे नृपसदसि समाकण्य यद्गोलवाह्याः

म्लानि यान्त्पवोधामतिमलयटलोर्दूलनैक प्रचंधम् 

[2] भाप्रवेशनविधिर्गमनाद्यो भात्रयेण ककुभः कथयेद्वा भान्पयक्रमयलैः च विना यो भाभ्रमं प्रकथयेद् गणकस्स [3] वेति दिशो यमभा यलैर्यद्धेत्ति दिद्युति उमणो गुणादपि भा । मध्पदिनद्युतिमर्कमवेत्प स्वाक्षजभां कुरुते गणकस्सः

[4] वीक्ष्प रवेारुदयं रविविद्यो यष्टिविधिर्निखिलोर्ध्वमिति वं
वेति यललश्रवणं भा मण्यगुणादयि भाविविवित्सा 

Ms. B : 1 d यान्न्यबोघा°, °मलपटलो° 4 b °मिति २