पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/224

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 11] सममण्डलप्रवेशविधिः 199 लम्ब[ज्या]ग्राघातात्पलज्यया भाजितात्समनरो वा ।

द्वादशगुणिता वाऽग्रा विषुवच्छायोद्धृता समना ॥ ११ ॥

इष्टनराभ्यस्ताऽग्रा नृतलविभक्ताऽथवा समः शङ्कुः । तद्धृत्यग्राकृत्योविशेषमूलं समनरो वा ॥ १२ ॥ [समच्छायाकर्ण:]

द्वादशगुणिताऽक्षज्या क्रान्तिज्याभाजिता समश्रवणः ॥ लम्बज्याऽक्षाभाघ्ना क्रान्तिज्याहृत्समः कर्णः ॥ १३ ॥

ज्याऽक्षाभाभ्यस्ता वाऽग्राभक्ता समश्रुतिर्भवति ॥ त्रिज्याऽक्षश्रुतिघातात्तद्धृत्याऽऽप्तात् समः श्रवणः ॥ १४ ॥ त्रिगुणपलाभाकृतिहतिरक्षश्रुतिकुगुणघातहृत्कर्णः । वाऽक्षाभाघ्राऽक्षज्या कुज्याभक्ता समः श्रवणः ॥ १५ ॥ Text of Ms. A : [11] लंवाग्राघातात्पलज्पया भाजितात्समनरो वा द्वादशगुणितावाग्रा विषुवश्छायोद्धृता समना

[12] इष्टनराभ्पस्ताग्रा नृतलविभक्त्ताथवा खसमः शंकु:

उद्धृत्पग्राकृत्पोविशेषमूलं समनरो वा [13] द्वादशगुणिताक्षज्पा क्रांतिज्पाभाजिता समश्रवण: लंबज्पाक्षाभा घ्रा क्रांतिज्पाहृत्समः कर्णः [14] त्रिज्पाक्षाभाभ्पस्ता वाग्राभक्ता समश्रुतिर्भवति त्रिज्पाक्षश्रुतिघातात्तद्वृत्पाप्तं समः श्रवणः [15] त्रिगुणपलभाकूतिहतिरक्षश्रुतिकुगुणघातहृत्कर्ण: वाक्षाभाघ्नाक्षज्पा कुज्पाभक्तास्समाः श्रवणः Ms. B : 12 b स्वसम: