पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/191

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

7. स्वचरार्धज्याप्राणसाधनविधिः [चरार्धज्यासाधनम्]

कुज्या त्रिज्यागुणिता द्युज्याभक्ता चरार्धजीवा स्यात् । 

अन्त्याहता कुजीवा धूतिभक्त्ता वा चरार्धज्या । १ ।। अन्त्योन्नतज्ययोर्वा विशेषशेषं चरार्धजीवा स्यात् । यन्त्रगृहीतद्युदलतिथिघटीविवरनाडिकाज्या वा ॥ २ ॥ पलजीवागुणिताऽग्रा द्युज्याभक्ताऽथवा चरार्धज्या । क्रान्तित्रिभगुणघातोऽक्षाभाघ्नोऽर्का[१२]हतद्युञ्जीवाहृत् ॥ ३ ॥ [अन्त्याक्रान्त्योर्धातोऽग्राघ्नो धृतिसमनृहृच्चरार्धज्या ।] वाऽक्षज्याघ्नो घातो लम्बज्याधृतिवधोद्धृतो वा स्यात् ॥ ४ ॥ [अन्त्याग्राघातः पलगुणगुणतस्त्रिगुणधृतिवधहतो वा ।]

कुज्याघ्रो वा घातोऽग्राधृतिघातोद्धृतो वा स्यात् ॥ ५ ॥

Text of Ms. A : [1] कुज्पा त्रिज्पागुणिता थुज्पाभक्ता चरार्धजीवा स्पात् अंत्पाहता कुजीवा धृतिमत्ता वा चरधिज्पा ।

2] अंग्प्रोन्नतज्पयोर्वा विशेषशेषं चरार्धजांवा वा ॥

यंत्रपृहीतयुदलतिथिघटीविवरनाडिकाज्पा वा

[3] पलजीवागुणिताग्रा घुज्पाभत्ताथवा चरार्धज्पा ॥ क्रांतित्रिभगुणघातौक्षाभाघ्नोकहितघुजीवाह्रत् ।
[4] वाक्षज्पाघ्नो घातो लवज्पाधृतिवधोद्वृतो वा स्पात! 

[5] कुञ्ज्पाघ्नो वा घातोग्राधृतिघातोद्धता वा स्पात् । Ms. B : 3 b द्युज्या To 3 d र्काहत