पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/172

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] विषुवच्छायासाधनविधिः १४७ शङ्कुं परिकल्प्य भुजं त्रिभुजेन विलोकयेत् ध्रुवमुदीच्याम्।

यन्त्रेण दृष्टिभुजयोर्विवराग्रा वा पलच्छाया। २६।।

उत्क्षिप्तैकाक्षिर्वा दक्षिणदिशि यस्य मस्तकासक्तम् । ।

पश्यति पौष्णं शङ्कोस्तन्मूलदृगन्तरं वाऽक्षाभा ॥ २७ ॥

त्रिज्याग्राकृतिवियुतेः पदं द्विनिघ्नमुदयास्तसूत्रं स्यात् ॥ उदयास्तसूत्रतस्स्याच्छङ्क्वप्रप्ररोपिणी स्वधृतिः ॥ २८ ॥ नृतलास्तोदयसूत्रान्तरं रवि[१२]गुणं नृहृत्पलाभा वा । स्वधृतिर्वा सूर्यगुणा शङ्कुविभक्ता पलश्रवणः ।॥ २९ ॥ इष्टच्छायाभ्यस्त नृतलं दृग्ज्योद्धृतं पलाभा वा ।

अथवेष्टकर्णगुणितं यष्टिविभक्तं [च] पलभा स्यात् ॥ ३० ॥

अग्रेष्टाभागुणिता दृग्ज्याभक्ता फलेष्टभाभुजयोः ॥ एकान्यदिगुद्भवयोविव[रं]क्यं वा पलच्छाया । ३१ ॥ Text of Ms. A: [26] शंकुं परिकल्प भुजं त्रिभुजेन विलोकयेद्ध्रवमुदीच्पां यंत्रेण दृष्टिभुजयोविवराग्रा वा पलश्छापा ।

[27] उक्षिप्तैकाक्षिर्वा दक्षिणदिकस्प सस्तकासक्तं । 

पश्यति पौष्णं शंकोस्तन्मूलदृगंतरं वाक्षाभा ।

[28] त्रिज्याग्राकृतिवियुतेः पदात्स्वनिघ्नमुदपास्तसूत्र' स्पात् उदयास्तसूत्रतस्स्पाश्छंक्वग्रप्ररापेणी स्वधृतिः ।
[29] नृतलास्तोदयसूत्रान्तरं रविगुणं नहृत्पलाभा वा

स्वधृतिर्वा सूर्यगुणा शंकुविभक्ता पलशपण: ।

[30] इष्टश्छायाम्पस्तं नृतलं दृग्ज्पोद्धृतं पलाभा वा अथवेष्टकर्णगुणितं यष्टिविभक्तं पलभा स्पात् । 

[31] अग्रेष्टभागुणिता दृग्ज्पाभक्ता फलेष्टभाभुजयोः एकात्पदिगुद्भवयोर्विवक्यं वा पलश्छाया । Ms. B : 31 d विवरैक्यं