पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/171

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे अधिकार: III इष्टद्वययोभुजयोर्स्समान्यककुभोर्वियोगसंयोगः । सूर्याहतो विभक्तः शङ्क्वोविवरेणा[क्षभा]ङ्गुलास्स्युः ॥ २१ ॥ अन्योन्यकर्णनिघ्नौ श्रुतिविवरहृतौ प्रभाद्वयोरेबाहू । इष्टे फलविवरयुतिः समान्यककुभोः पलच्छाया ॥ २२ ॥ द्वादशगुणिता वाऽग्रा सममण्डलशङ्कुभाजिताऽक्षाभा ।

स्वधृतिः समशङ्कुहृता रवि[१२]गुणिता वा पलश्रवणः ॥ २३ ॥

त्रिज्या द्वादशगुणिता भक्ता लम्बज्ययाऽथवा कर्णः ॥

समकर्णगुणा कुज्या पलजीवाहत् पलाभा वा ॥ २४ ॥

[स्वदेशाक्षः]

दिनदलदृग्ज्याचापं क्रान्त्या युतवर्जितं क्रियतुलादौ । अक्षोऽदक्षिणदृग्ज्याधनुषोना क्रान्तिरक्षः स्यात् ॥ २५ ॥

Text of Ms. A : [21] इष्टायभुजयोस्सामान्पककुभोर्विशोषसंयोगः सूर्याहतोविभत्कः शकोर्विवरेवाहुगुलास्पुः । [22] अन्पोन्पकर्णनिघ्नो शुतिविवरहृतौ प्रभाद्वपैवह्न । इष्टे फलविवरयुतिः सामात्पककुभोः पलश्छाया

23] द्वादशगुणिता वाग्रा सममंडलशंकुभाजिताक्षाभा

स्ववृत्तिस्समंशंकुहृता रविगुणिता वा पलश्रवणः ॥ [24] त्रिज्या द्वादशगुणिता भक्ता लंवज्पयाथवा कर्ण: समकर्णगुणा कुञ्ज्पा पलजीवाहृत्पलाभा वा ।

[25] दिनदलदृग्ज्पाचाप क्रांत्पा युतवर्जिता क्रियतुलादौ

अक्षो दक्षणदृग्ज्पाधनुषोना क्रांतिरक्षस्स्पात् ॥ | Ms. B: 2ı d शंको 22 b*बाहू