पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/165

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

140 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकार: II त्रिज्यासमः कीदृशि शीघ्रकेन्द्रे कर्णो भुजज्यासदृशश्च कस्मिन् ॥ ब्रूहि स्फुटां वेत्सि यदि ग्रहाणां चेष्टां तथाऽग्रान्त्यफलज्यया च ॥ ११ ॥ केन्द्रमिष्टफलतस्ततोऽथवा तद्ग्रहस्य दृगदृश्यकेन्द्रके। वक्रकेन्द्रमनुवक्रकेन्द्रकं तद्दिनानि गणकः स उच्यते ॥ १२ ॥ स्फुटर्क्षभोगं बहुधाऽभिजिद्गति विनिघ्रिनः स्पष्टगतिं च वेत्ति यः ॥ दिवौकसः सङ्क्रमकालनाडिकाः स वेत्ति सम्यग्गणकः स्फुटां गतिम् ॥ १३ ॥ आद्यन्तौ व्यतिपातवैधृतिकयोः पर्वातयोश्च स्फुटं

तिथ्यन्तं करणान्तमेव हि तथा योगान्तमाक्षं तथा ।
यो जानाति समौ खरांशुशशिनौ लिप्तांशराश्यादिकौ 

त्रिक्स्पृग् वा दिवसाधिपं स गणको नान्योऽस्ति तस्यापरः ॥ १४ ॥ Text of Ms. A : [11] त्रिज्यासमः कीदृशिं शीघ्रकेन्द्रे कर्णो भुजज्पासदृशश्च कस्मिन् बृहि स्फुटां वेत्सि यदि ग्रहाणां चेष्टंस्तथाग्रांत्पफलज्पया च । [12] केन्द्रमिष्टफलतस्ततोथवा तद्ग्रहस्प दृगदृश्पकेन्द्रके वक्रकेन्द्रमनुवक्रकेन्द्रकं तद्दिनानि गणकस्स उच्पते । [13] स्फुटक्षभोगं बहुधाभिजिद्गतिः विनिन्हिनो स्पष्टगतिं च वेत्ति यः दिवोकसस्संक्रमकालनाडिकास्स वेत्ति सम्पग्नणितस्स्फुटां गतिं । [14] आद्यंतौ व्पतिपातवैधृतिकयोर्मृ... तयोश्च स्फुटां

तिथ्पंत करणांतमेव हि तथा योगांतमाक्षं तथा 

यो जानाति समौ स्वरांशुशशिनौ लिप्ताशराश्पादिकौ त्पहस्स्पृग्दिवसाधिपं स गणको नान्योस्ति तस्पापरः । Ms. B : 14 c खरांशुशशिनौ