पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/161

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

136 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II [अवमपातकालः] पतितावमस्य दिवसा मध्यतिथिकलास्स्वतत्त्व[२५]भागोनाः ॥

याता भुक्तिविशुद्धा येयास्स्युर्वसुकृतेः [६४] शुद्धा ॥ ३७ ॥

[सङ्क्रमकाल: पुण्यकालश्च ] गत्यंशहृतं बिम्बं सङ्क्रमकालो ग्रहस्य घटिकादिः ॥ पुण्यतमोऽर्कस्यायं राश्यन्तं त्यजति रविबिम्बम् ॥ ३८ ॥ शशिबिम्बं षष्टिगुणं गतिविवरहृतं च करणतिथ्यन्तम् ॥ गतियुतिहृद्योगान्तं मिश्रफलोऽत्र स्थितो द्युचरः ॥ ३९ ॥ अत एवानिष्टानामाद्यन्तौ तिथिकरणयोगानाम् ।

नेष्टो विष्टेर्वारस्तिथित्रयस्पृक्च यो भवति ॥ ४० ॥

[अधिमासावमयोः पतनकालः] अधिमासशेषकाद्यत्त्वधिमासैराप्यते दिनादिफलम् । तदतीतमधिकशेषहीनाद्रविवासरौघतो लब्धम् ॥ ४१ ॥ Text of Ms. A : [37] पतितावमस्प दिवस्ममध्पतिथिकलास्स्वतत्त्वभागोनाः याता भत्किविशुद्धा येयास्पुर्वसुकृत: शुद्धाः ।

[38] गत्पंशहृतविवं सक्रमकालो ग्रहस्प घटिकादिः।

पुण्पतयोर्कस्पायं शश्पंतं त्पजति रविर्विवो [39] शशिवेम्रषष्टिगुणं गतिविवरिहृतं च करणतिथ्पंतं । गतियुतिहृद्योगांतं मिश्रफलोत्र स्छितो द्युचरः ।

[401 अत पवानिष्टानामाद्यंतौ तिथिकरणयोगानां 

निष्टो विष्टेर्वारस्तिथित्त्रयंस्पृक्वयो भवति । [41] अधिमासशेषकाद्यत्त्वदधिमासैराय्पते दिनादिफलं !! - तदतीतमधिकशेषहानाद्रविवासरीगतो लव्दं ।