पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/160

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। परिच्छेदः 6] तिथ्याद्यानयनविधिः 135 [मध्यतिथेः स्पष्टतिथ्यानयनम्] रविशशिफले विधेये मध्यतिथिकलासु रविफलं व्यस्तम् ॥ तिथिविवरांशहृता सा स्पष्टा ग्रहवच्चरार्धेन ॥ ३२ ॥ [रविचन्द्रयोः समलिप्तीकरणम्] तिथिगतयेयघटीध्न्यौ रवीन्दुभुक्ती विभाजिते षष्टया । फललिप्तावियुतयुतौ तिथ्यन्ते समकलौ भवतः ॥ ३३ ॥ गतयेयविकलघ्ने गती रवीन्द्वोर्गमान्तरेण हृते । फललिप्ताभिः प्राग्वद्वियुतयुतौ [[वा] समकलौ स्तः ॥ ३४ ॥ तिथियेययातघटिकातुल्यकलाभिर्युतोनितेन्दुरवी ॥ तिथिलिप्ताभिश्चेन्दुः समलिप्तौ वा विधूष्णकरौ ॥ ३५ ॥ [करणान्ते तिथ्यन्ते पूर्णान्ते मासान्ते वा रविचन्द्रौ] करणान्ते तिथ्यन्ते समौ कलाभिस्तथा च पूर्णान्ते ॥

समभागौ मासान्ते समराशी भास्करेन्दू स्तः ॥ ३६ ॥

Text of Ms. A :

[32] रविशशिफले विधेये मध्पतिथिकलासु रविफलव्पस्तां

तिथिविवरांशहृता सस्पृष्टा ग्रहवच्चरार्धेन

[33] तिथिगतयेयघटोघ्नी रवीन्दुभुक्तिविभाजिते षष्टया ।

फललिप्तावियुतयुतौ तिथ्पंते समकलौ भवतः । [34] गतयेयविकलग्रे गती रवीन्द्रोर्ग्रमान्तरेण हृतेः फललिप्ताभिः प्राद्यद्वियुतयुतौ समकलौ स्तः ॥

[35] तिथययात्तघटिकातुल्पकलाभिर्युतोनितौ चंद्रः

तिथिलिप्ताभिश्चैव समलिप्तौ वा विधूष्णकरौ ।

{36] करणाते तिथ्पंते समौ कलाभिर्जयार्धपूर्णाते ।

समभागा मासार्ति समराशी भास्करेन्दू स्तः । Ms. B : 32 व्यस्तं 35 a तिथयपपत्त°