पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/158

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 6] तिथ्याद्यानयनविधिः 133 [पातकालसाधनम्]

विवरयुती व्यतिपाते युतिविवरे वैधृते समान्यदिशोः ।
क्रान्त्योः प्रथमो राशिः स्वेष्टघटीभिस्तथान्योऽपि ॥ २० ॥

[प्रथमविधिः] जिन[२४]भागज्यागुणिता जीवास्सर्वास्त्रिभज्यया भक्ताः ।

क्रमजीवाः क्रमलिप्ताः तच्चापान्यन्तरे स्थाप्याः ॥ २१ ॥ 

गतमैष्यं वा पातं विज्ञाय प्रथमराशितश्चंद्रात् ॥ धनुकलिका विज्ञेयाः खण्डक्रान्तिलिप्तिकास्ताश्च ॥ २२ ॥ शोध्याः प्रथमात् स्थाप्यं खण्डधनुःशेषचापकलिकाश्च । व्युत्क्रमखंडवशात्तत्खण्डधनुर्युति विभजेत् ॥ २३ ॥

भुक्त्यन्तरेण लब्धं दिनादि चैवं गते पाते। 

विषमपदस्थे चन्द्रे भाविनि पाते तु पूर्ववत्साध्या ॥ २४ ॥ खण्डधनुःक्रान्तिकलास्तद्धीनास्सकलखण्डकलाः । शोध्याः प्रथमात् स्थाप्यं खण्डधनुर्वजितं चापम् ॥ २५ ॥। Text of Ms. A : [20] विवरघुति व्पतिपातो घुतिविवरवैधृते समान्पदिशौः क्रांत्पोः प्रथमो राशि । स्तथेष्टरातीभिरन्पेपि ।

[21] जिवभागज्पागुणिती जीवास्सर्वास्त्रीभज्पया भत्काः

क्रमाजीवात्क्रमलिप्ता तच्चापान्पंतरे स्छाप्पाः ॥ ॥ |22] गतमैष्प वा पातं विज्ञाय प्रथमराशितश्चंद्रात् । ध्रकलिकाद्विधेया । खंड:क्रांतित्विभिप्तिकास्ताश्च ।

[23] शोध्पाः प्रथमात्स्छप्पं खंडयनुशेषचापकलित

व्युत्क्रमखंडवशाक्तत्तत्खंड्यनुर्युति विभजेत् ॥ ॥

[24] भुक्यंतरेण लव्दं दिनादि चैवं गते पाते।

विषमे पदस्छे चंद्रभाविनि पाते तु पूर्ववत्साध्पा ।

{25] खंडधनुःक्रांतिकलास्तद्वीनास्सकलखेडकलाः

शोध्पाः प्रथमात्स्छाप्यं खंडधनुर्वर्जितं चापे ।

Ms. B: 22 क्रान्तित्विप्तिका 23 c ह्युत्क्रम्° 24 a लब्दं 25 b ०स्तद्धीना०