पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/157

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

132 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकार: II चके वैधृतमेवं क्रान्तिसमत्वे तथायनैकत्वे। [क्रान्तिसाम्ये रवीन्दुपाताः]

ऊनाधिकलिप्ताभ्यो गतियुतिलब्धा द्युगणनाडयः ॥ १५ ॥ स्वफलेन युक्तहीना रवीन्दुपाता

[पातस्य सम्भवासम्भवम्।] विधावयनसन्धो । विदिशोः क्षेपक्रान्त्योः क्रान्त्यूनोऽपक्रमः परमः ॥ १६ ॥

यदि विक्षेपादूनः पाताभावस्तदन्यथा भवति ॥

[अयनसन्धिः] अयनादेः प्रागूर्ध्वं पञ्चाग्नि[३५]भिरंशकैस्सन्धिः ॥ १७ ॥ [चन्द्रक्रान्तिविषये विशेषः]

एकदिशोर्व्यतिपातः क्रान्त्योविदिशोस्तु वैधृतं भवति ॥ दिग्भेदेऽपक्रमणं महदप्यूनं विधोर्ज्ञेयम् ॥ १८ ॥

[पातस्य गतागतत्वम्] विषमपदगे यदीन्दोः क्रान्तिर्महती सहस्रगुक्रान्तेः ॥

भूतोऽन्यथा तु भावी समपदगे व्यत्ययात्पातः ॥ १९ ॥

Text of Ms. A :

[15] त्वक्रे । वैधृतिमेवं क्रांतिसमत्वे तथाघनैकत्वे

ऊनाधिकलिप्ताम्पो गतियुतिलव्द द्युगणभत्कः ॥

[16] स्वफलेन युक्तहीना रवींदुपाता विधावयनसंधौ ।

विदिशो क्षेपक्रांत्पोः क्रांत्पूनोयक्रमः परमः ।

[17] यदि विक्षेपादूनः पात्तोभावस्तदान्पथा भवति

अयनांदेः प्रागूर्धं पंचाग्निभिरंशकैस्संधिः ।

[18] एकदिशोव्पतिपातः क्रांत्पोविदिशोस्तु वैधृतं भवति ।

दिग्भेदोपक्रमणा। महदप्पूनं विधोर्क्ज्ञेयं ।

[19] विषमपदगे यदीन्द्रौ क्रांतिर्महंती सहस्रगुक्रांतेः
भूतोन्पष्था तु भावी समपदगो व्पत्पयात्पातः ।

Ms. B : 15 लब्द 19 d त्पोत: