पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/132

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] स्वोच्चनीचग्रहस्फुटीकरणविधिः 107 दिघ्नाग्राफलताडितस्त्रिभगुणः केन्द्रे मृगादिस्थिते व्यासार्धान्त्यफलज्ययोः कृतियुतौ देयः कुलीरादिगे ॥

हेयः स्याच्छवणः पदं परफलव्यासार्धकृत्योर्युतेः 

व्यासाप्ते श्रुतिवर्गतश्च फलयोः स्यादन्तरेऽग्राफलम् ॥ ९ ॥ भुजफलाग्रसमासहते तु ते निजविशेषहताग्रभुजाफले।

धनमृणं क्र[म]शो हतयोस्तयोः पदमुशन्ति तयोरथवा श्रुती ॥ १० ॥

[ग्रहाणा स्फुटगतिसाधनम्] एवं खेचरमेकमेव गणयन् श्वश्चाद्य एव स्फुटं

भुक्तिः स्याद्विवरावशिष्टमनयोः स्पष्टाऽधिके चेत्परे ॥ वक्राख्याऽद्यतनेऽथवा ग्रहगतेः साध्यं फलं पूर्ववत् 

मान्दं तद्दलसंस्कृतामपनयेत्तच्छीघ्रभुक्तेः पृथक् ॥ ११ ॥ केन्द्रभुक्तिरवशेषमुच्यते तां स्वशीघ्रफलधन्वभोज्यया।

जीवया शशिरसै: [६१] प्रताडयेत् भाजयेच्च चलकर्णसंख्यया ॥ १२ ॥

Text of Ms. A : [9] द्विघ्राग्राफलताडितास्त्रिभगुणः केंद्रे पृगादिस्छिते व्यासावांत्पफलज्पयोः कृतिपुतौ दयेः कुलीरादिगे हियस्स्पाक्रवणात्पदं फरफलं व्यासार्घकृत्पोर्धृते:

व्पासस्तं श्रुतिवर्गतः च फलयोः स्पादंतरेग्राफलं । 

[10] भुजफलाग्रसमासहते तु ते निजविशेषहताग्रमुजाफले धनमृणं कसो हतयोः पदमुषंति तयोरथवा श्रुती

[11 ] पचं खेचरमेकमेव गणयश्छश्चाघदैवं स्फुटं ।

भुक्तिस्पाद्विवतावशिष्टमुनयोः स्पष्टादिकेश्चदरा वक्राख्पाघतनेथवा ग्रहगतेस्साध्पं फलं पूर्वव न्मार्द तद्दलसंस्कृतामपनयेत्रश्छीघ्रमुक्ते: पृथक् ।

[12] केन्द्रभुतिरवशेषमुच्पते तां स्वशीघ्रफलंधन्वभोज्पया

जीवपा शशिरसैः प्रताडयेद्भाजयेच्च चलकर्णसंख्पया । Ms. B : 9 a केदेष्टगा० 11 a पवं 11 d ०नयेतश्छी'