पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/131

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II लब्धस्य चापमिह शीघ्रफलं प्रदिष्टमेवं मृदुश्रवणको द्युचरस्य साध्यः । बाह्वग्रयोः स गुणकस्त्रिगुणश्च हारस्ताभ्यामसावसकृदेवमनिश्चलत्वम् ॥ ४ ॥ स्फुटकोटयग्राफलकृतिविवरान्त्यफलगुणकृतियुतेर्मूलम् । कर्णः स्यादथवा भुजाफलेन विनियोजना नात्र ॥ ५ ॥ तद्युतिविवरहतिः परफलगुणवर्गसंयुक्ता वा स्यात् । कर्णकृतिस्तन्मूलं कर्णो दोःफलगुणं विनैवायम् ॥ ६ ॥ भुजफलरहिताग्रया हता वा युतिरनयोर्विवरं तदन्वितोना। नयन[२]हतकृती पदे तयोर्वा भुजफलकोटिकयोः श्रुती प्रदिप्टे ॥ ७ ॥ ' भुजाफलाग्रे स्वविशेषताडिते धनक्षयाह्ने स्वकृतौ बधस्तयोः ॥ बधाद्द्वनिघ्नात्स्वविशेषर्वागतात् प्रयोजनान्मूलमुशन्ति वा श्रुतिम् ॥ ८ ॥ Text of Ms. A : [4] लव्दस्प चापमिह श्रीघ्रफलं प्रदिष्टमेवं पृदुश्रवणको द्युचरस्प साध्पः वाह्वग्रयोस्सगुणकस्त्रिगुणश्च हारस्ताभ्पामसाकसकृदेवमूनिश्चलत्वे ।

[5] स्फुटकोघग्राफलकृतिविवरांत्पफलगुणकृतियुतेर्मूलं ।

कर्णस्स्पादथवा भुजाफलेन विनियोजना नात्र ।

[6] तघुतिर्विवरहतिः परफलगुणवर्गसंयुता सा स्पात् ।

कर्णकृतिस्तन्मूलं कर्णो दो: फर्लगुणिविनैवाघं । [7] भुजफलरहिताश्रया हता वा युति: नयोर्विवरं तदन्वित्तोनेना नपनहतकृती पदे तयोवा नुजफलकोटिकयोः श्रुती प्रविष्टे ।

[8] भुजाफलाश्रेष्टविसेषताडिते धनक्षयाह्ने स्वकृतौ वधौ तयोः । वधाद्विनिघ्नात्स्वविशेषवर्गेिता प्रयोजनान्मूलमुषंति वा श्रुति ।

Ms. B: 6d दो:फलं० 7 c तयोवी० 7d “तुजफल० 8 c ० वर्गिती 8 d श्रुतिं