पृष्ठम्:लीलावती.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
वासनासहिता ।

 न्यासः। ६३/१ । १०४/१ । ४९/४ । मध्यमिच्छागुणितं ५०९६/४ छेदभक्तम् १२७४ आद्येन ६३ र्हतं लब्धा निष्काः २० । शेषं १४ योडशगुणितम् २२४ आद्येन भक्तंजाता द्रम्माः ३ । पणाः = । काकिण्यः ३ । वराटकाः ११^१/९ ।

अन्यदुदाहरणम् ।

द्रम्मद्वयेन साष्टांशा शालितण्डुलखारिका ।
लभ्या चेत् पणसप्तत्या तत् किं सपदि कथ्यताम् ? ॥ ३ ॥

 अत्र प्रसाणसजातीयकरणार्थं द्रम्मद्वयस्य पणीरकृतस्य

 न्यासः । ३२/१ । ९/८ । ७०/१ लब्धे खार्यौ २ । द्रोणाः ७ | आढकः १ । प्रस्थौ २।

इति त्रैराशिकम्।

  अत्रोपपत्ति-- चतुर्ष्वपि सजालीयेषु राशिषु प्रथमतृतीययोर्यः सम्बन्धः स एव द्वितीयचतुर्थयोर्सवति, तत्रापि प्रथमतृतीयौ तथा द्वितीयचतुर्थे च समानजातीयौ भवत इति क्षेत्रमितेः षष्ठाध्यायतस्तावस्पष्टमेव । ये सजातीयास्त एवानुपती- यश्चातोऽत्र केषामपि त्रयाणां राशीनां ज्ञानदन्यसाधनार्थं या रीतिस्तदेव त्रैराशिक- मित्यतोऽन्नाद्यतृतीयौ प्रमाणेच्छासंज्ञकौ, द्वितीयचतुर्थौ तु तत्फलसंज्ञकावित्वुपपन्नम् ।


अथ व्यस्तत्रैराशिकम् । 

इच्छावृद्धौ फले ह्रासो ह्रासे बुद्धिः फलस्य तु ।।
व्यस्तं त्रैराशिकं तत्र सेयं गणितकोविदैः ॥ ८ ॥

 यत्र इच्छावृद्धौ फलस्य ह्रासो ह्रासे वा फलस्य वृद्धिस्तत्र व्यस्त- त्रैशशिकं स्यात् ।

तद्यथा -- 

जीवानां वयसो मौल्ये तौल्ये वर्णस्य हैमने ।।
भागहारे च राशीनां व्यस्तं त्रैराशिकं भवेत् ॥ १ ॥

उदाहरणम् । 

प्राप्नोति चेत् वोडशवत्सरा स्त्री द्वात्रिंशतंविंशतिंञ्चत्स किम् ।।
द्विथ्रर्वहो निष्कचतुष्कमुक्षाः प्राप्नोति धूःषट्कबहस्तदा किम् ? ।। १ ।।

 न्यासः। १६ । ३२ । २० । लब्धम् २५ ३/५ ।।

 द्वितीयन्यासः । २ । ४ । ६ । लब्धम् १ १/३ ।।

उदाहरणम् । 

दशबर्णे सुवर्णं चेत् गध्याणकमवाप्यते ।
निष्केण तिथिवर्णे तु तदा वद कियन्मितम् ? ॥ २ ॥

 न्यासः १० | १ | १५ लब्धम् २/३।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३८&oldid=399260" इत्यस्माद् प्रतिप्राप्तम्