सामग्री पर जाएँ

पृष्ठम्:ललितविस्तरः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ २५

च तत्कुलं भवति । अनवद्यं च तत्कुले भवति सर्वजातिवाददोषैः । सदेवके लोके समारके सब्रह्मके स श्रमणब्राह्मणिकाया प्रजायै ॥ एभिर्महाचतुःषष्ट्याकारैः समन्वागतं च तत्कुलं भवति यस्मिंश्चर- मभविको बोधिसत्त्व उत्पद्यते ॥ ५ द्वात्रिंशता भार्या गुणाकारैः समन्वागता सा स्त्री भवति ५ यस्याः स्त्रियाश्चरमभविको बोधिसत्त्वः कुक्षाववक्रामति । कतमैर्द्वात्रिं- शता । यदुताभिजातायां स्त्रियां कुक्षौ चरमभविको बोधिसत्त्व अवक्रामति । अभिलक्षिताया अच्छिद्रोपचाराया जातिसम्पन्नायाः कुल- सम्पन्नाया रूपसम्पन्नाया नामसम्पन्नाया आरोहपरिणाहसम्पन्नाया १० अप्रसूतायाः शीलसम्पन्नायाः क्षमसम्पन्नायाः क्षितमुखायाः प्रदक्षि- १० णग्राहिण्या व्यक्तया विनीताया विशारदाया बहुश्रुतायाः पण्डि- ताया अठढाया अमायाविन्या अक्रोधनाया अपगतर्ष्या अमत्स- राया अचञ्चलाया अचपलाया अमुखरायाः क्षान्तिसौरभ्यसम्पन्नाया ह्रीपत्रप्यसम्पन्नाया मन्दरागद्वेषमोहाया अपगतमातृग्रामदोषायाः १५ पतिव्रतायाः सर्वकारगुणसम्पन्नायाः स्त्रियाः कुक्षौ चरमभविको १५ बोधिसत्त्व अवक्रामति ॥ एभिर्महा द्वात्रिंशताकारैः समन्वागता सा स्त्री यस्याः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रा- मति ॥ न खलु पुनर्भिक्षः कृष्णपक्षे बोधिसत्त्वो मातुः कुक्षाववक्रामति । २० अपि तु शुक्लपक्षे एव पञ्चदश्यां पूर्णायां पूर्णिमायां पुष्यनक्षत्रेण २० पोषधपरिगृहीताया मातुः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रा- मति ॥